________________
कापिलीयाध्य..
बृहद्वृत्तिः
उत्तराध्य.
च-'जे तरंति वणिया व समुद्द'मिति, स्पष्टम् , उक्तं च केनचित्-"विषयगणःकापुरुषं करोति वशवर्त्तिनं न सत्पुरुषम्। बनाति मशकमेव हि लूतातन्तुन मातङ्गम् ॥१॥” इति सूत्रार्थः॥ किं सर्वेऽपि साधवोऽतरं तरन्ति उत नेत्याह
समणा मु एगे बदमाणा पाणवहं मिया अजाणता । मंदा निरयं गच्छति बाला पावियाहिं दिट्ठीहिं॥७॥ ॥२९२॥
____ व्याख्या-श्राम्यन्ति-मुक्त्यर्थ खिद्यन्त इति श्रमणाः-साधवः 'मु' इत्यात्मनिर्देशार्थत्वाद्वयमिति 'एके' केचन 18 तीर्थान्तरीयाः ‘वदमानाः' खाभिप्रायमुद्दीपयन्तो 'भासनोपसम्भाषाज्ञानयत्नविमत्युपनिमन्त्रणेषु वदः' (पा० १-३-४७)
इत्यनेन भासने आत्मनेपदं,प्राणा-उक्तरूपास्तेषां वधो-घातस्तमजानन्त इति सम्बन्धः, मृगाइव मृगाःप्राग्वत्, अजानन्त इति ज्ञपरिज्ञया के प्राणिनः ? के च तेषां प्राणाः कथं वा वधः? इत्यनवबुध्यमानाः प्रत्याख्यानपरिज्ञया च तद्वधमप्रत्याचक्षाणाः, अनेन च प्रथमव्रतमपि न विदन्ति आस्तां शेषाणीत्युक्तं भवति, अत एव मन्दा इव मन्दा मिध्यात्वमहारोगग्रस्ततया 'निरयं' पाठान्तरतो 'नरकं वा' प्रतीतं गच्छन्ति-यान्ति, बाला इव बाला-हेयोपादेय विवेकविकलत्वात् 'पावियाहिति प्रापयन्ति नरकमिति प्रापिकास्ताभिः, यद्वा-पापा एव पापिकास्ताभिः, परस्परविरोधादिदोषात स्वरूपेणैव कुत्सिताभिः, 'न हिंस्यात् सर्वभूतानी'त्याद्यभिधाय 'श्वेतं छागमालभेत वायव्यां दिशि भूतिकाम' इत्यादिपरस्परविरुद्धार्थाभिधायिनीभिः, पापहेतभिर्वा पापिकाभिदृष्टिभिः-दर्शनाभिप्रायरूपाभिः 'ब्रह्मणं ब्राह्मणमालभेत, इन्द्राय क्षत्रियं, मरुद्भयो वैश्यं, तपसे शूद्रं, तथा च-'यस्य बुद्धिन लिप्येत, हत्वा समिद जगत्।
२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org