________________
यथाऽसौ तस्निग्धतागन्धादिभिराकृष्यमाणा तत्र मजति, मन्ना च रेवादिना वध्यते, एवं जन्तुरपि भोगामिषे
मनः कर्मणेति सूत्रार्थः ॥ ननु यद्येवममी भोगाः कर्मवन्धकारणं किं नैतान् सर्वेऽपि जन्तवस्यजन्तीत्याहहै दुप्परिच्चया इमे कामा नो सुजहा अधीरपुरिसेहिं । अह संति-सुव्वया साहू जे तरंति अतरं वणिया व ॥६॥
| व्याख्या-दुःखेन-कृच्छ्रेण परित्यज्यन्ते-परिहियन्त इति दुष्परित्यजाः 'इमे' प्रत्यक्षत उपलभ्यमानाः 'कामा' | || भोगाः 'नो' नैव 'सुजह'त्ति सूत्रत्वात् सुखेन-अनायासेन हीयन्त इति सुहानाः-सुत्यजाः, विषसम्पृक्तस्निग्धमधुरान
वद्, कैः ?-'अधीरपुरुषैः' अबुद्धिमद्भिरसत्त्वैर्वा नरैः, पुरुषग्रहणं तु ये तावदल्पवेदोदयतया सुखेनैव त्यक्तारः सम्भवन्ति | तैरप्यमी न सुखेन त्यज्यन्ते, आस्तामतिदारुणस्त्रीपण्डकवेदोदयाऽऽकुलितैः स्त्रीनपुंसकैरिति । यचेह दुष्परित्यजा इत्युक्त्वा पुनर्न सुहानाः इत्युक्तं तदत्यन्त दुस्त्यजताख्यापकं प्रश्चितज्ञविनेयानुग्राहकं वेति अपुनरुक्तमेव, अधीरग्रहणेन | तु धीरैः सुत्यजा एवेत्युच्यते, अत एवाह-'अथ' इत्युपन्यासे 'सन्ति' विद्यन्ते शोभनानि सम्यग्ज्ञानाधिष्ठितत्वेन 8 व्रतानि-हिंसाविरमणादीनि येषां ते सुव्रताः, शान्त्या वोपलक्षिताः सुत्रताः शान्तिसुव्रताः, इह च सन्तीति शेषः, साधयन्ति पौरुषेयीभिः क्रियाभिमुक्तिमिति साधवः, ये किमित्याह-ये 'तरन्ति' परपारावाया | 'अतरं' तरीतुमशक्यं विषयगणं भवं वा, क इय?-वणिज इव, वाशब्दस्य हेवार्थत्वात् , यथाहि वणिजोऽतरं नीधि यानपात्रादिनोपायेन तरन्ति एवमेतेऽपिधीरा व्रतादिनोक्तरूपमतरम् , अधीररवोक्तनीतितोऽस्य दुखरत्वात् , पठन्ति
in Education
For Personal & Private Use Only
ainelibrary.org