________________
चारित्रमुक्तं । ननु 'हियणिस्सेसाए य सङ्घजीवाण' श्रीत्युक्तो 'तेसिं विमोक्खणट्टाएँ' इत्यतिरिच्यते, न, तानेवोद्दिश्यास्य भगवतः प्रवृत्तिरिति प्रधानत्वात् पुनस्तद्विमोक्षणार्थताऽभिधानं, दृश्यते हि - 'ब्राह्मणा आयाता वशिष्ठोऽप्यायात ' इति सामान्योक्तावपि पुनः प्रधानस्याभिधानमिति सूत्रार्थः ॥ यदसौ भाषते तदाह
सव्वं गंथं कलहं च विपज हे तहाविहं भिक्खू । सव्वेसु कामजाएस पासमाणो न लिप्पई ताई ॥ ४ ॥ व्याख्या- 'सर्वम्' अशेषं 'ग्रन्थं' बाह्यमाभ्यन्तरं च तत्र बाह्यं धनादि, आभ्यन्तरं मिथ्यात्वादि, कलहहेतुत्वात्कल ह: - क्रोधस्तं, चशब्दान्मानादींश्च, अभ्यन्तरग्रन्थ रूपत्वेऽपि चैषां पृथगुपादानं बहुदोषख्यापनार्थे, 'विप्पजहे' त्ति विप्रजह्यात् परित्यजेत् ' तथाविधमिति कर्मबन्धहेतुं न तु धर्मोपकरणमपीत्यभिप्रायः, पाठान्तरतश्च - तथाविधो, 'भिक्षुः' यतिस्तस्यैवैवंविधधम्महित्वा देवमभिधानम्, अन्योक्त्या वा त एवैवमुच्यन्ते, ततश्च किं स्यादित्याह- 'सर्वेषु' अशेषेषु 'कामजातेषु' मनोज्ञशब्दादीनां प्रकारेषु समूहेषु वा 'पासमाणो 'त्ति पश्यन् प्रेक्षमाणो, | विपाककटुकात्मकं तद्विषयं दोषमिति गम्यते, न 'लिप्यते' कर्म्मणा नोपदिह्यते, कामद प्रायः प्रवृत्तेरभावादिति भावः, तायते त्रायते वा रक्षति दुर्गतेरात्मानम् एकेन्द्रियादिप्राणिनो वाऽवश्यमिति तायी त्रायी वेति | सूत्रार्थः ॥ इत्थं ग्रन्थत्यागिनो गुणमभिधाय व्यतिरेके दोषमाह
भोग दिने हियनिस्सेय सबुद्धिवोच्चत्थे । वाले य मंदिए मूढे बज्झइ मच्छिया व खेलंमि ॥ ५ ॥ १ विपज्जत्थे प्र०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org