SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ कापिली याध्य.८ उत्तराध्य. रिति साधुः, पाठान्तरतश्च 'दोषप्रदोषैः' तत्र दोषैः-इहैव मनस्तापादिभिः प्रदोषैश्च-परत्र नरकगत्यादिभिरिति बृहद्वत्तिःसूत्रार्थः ॥ पुनर्यदसौ कृतवांस्तदाह तो नाणदंसणसमग्गो हियनिस्सेसाए य सव्वजीवाणं । तेसिं विमोक्खणट्टाएँ भासइ मुणिवरो विगयमोहो ३ | ॥२९॥ __व्याख्या-'तो'त्ति ततोऽनन्तरं, भाषते मुनिवर इति सम्बन्धः, स च कीग ?-ज्ञायतेऽनेन विशेषात्मना वस्त्विति ज्ञानं, दृश्यतेऽनेन सामान्यरूपेण वस्त्विति दर्शनं, ताभ्यां प्रस्तावात् केवलाभ्यां समग्रः-समन्वितः, यदिवा प्राकृतत्वात्समग्रे-परिपूर्ण ज्ञानदर्शने यस्यासौ समग्रज्ञानदर्शनः, किमर्थमसौ भाषत इत्याह-हियणिस्सेसाए' इति सूत्रत्वात् हितः-पथ्यो भावाऽऽरोग्यहेतुत्वात् निःश्रेयसो-मोक्षः, हितश्चासौ निःश्रेयसश्च हितनिःश्रेयसस्तस्मै, यद्वा प्राकृतत्वादेव निश्शेपं-समस्तं हितं-सम्यग्ज्ञानादि, तस्यैव तत्त्वतो हितत्वात् , ततो निश्शेषं च तद्धितं च निश्शेषहितं तस्मै, कथं नाम निश्शेषहितावासिः स्यादिति, चशब्दो भिन्नक्रमः, तेषामित्यत्र योज्यते, केषाम् ?-'सर्वजीवानाम् ' अशेषप्राणिनां तेषां' च पञ्चशतसङ्ख्यचौराणां विमोक्षणम्-अष्टविधकर्मणः पृथक्करणं तदेवार्थः-प्रयोजनं |विमोक्षणार्थस्तस्मै-तन्निमित्तं, भाषते इति वर्तमाननिर्देशः प्राग्वत् , यद्वा-'भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्व'मितिवचनात् तस्यापि तदा वर्तमानतैवेति तत्कालत्वस्य विवक्षितत्वान्न दोषः, 'मुनिवरः' मुनिप्रधान, विगतो-विनष्टो मोहो यस्य यस्माद्वा स तादृक् । इह च विगतमोहबचनेन चारित्रमोहनीयाभावतो यथाख्यात Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy