SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ क्षण'ति प्राकृतत्वादक्षिणां 'पहट्टमुहवण्ण'त्ति प्रहृष्टः-प्रहर्षवान् मुखवर्णो-मुखच्छाया यस्य स तथा, मुखस्य प्रहृष्ट त्वादुपचारात्तद्वण्र्णोऽपि प्रहृष्ट उक्तः, यद्वा प्रहृष्टमुखस्येव मुखवणो यस्य स तथा, मयूरव्यंसकादित्वात् समासः, मानसत्वाच हर्षादीनां मुखस्यापि प्रहृष्टत्वं रूढित इति भावनीयम् । 'इक्कडदासाणं'ति इक्कडदासजातीनाम् 'अतिशेषे अतिशये 'होही अटो इमोत्ति भविष्यति अर्थ:-प्रयोजनम् 'अयं' पूर्वसङ्गतिकचौरशतपञ्चकप्रतिबोधलक्षण इति ज्ञात्वा च 'अद्धाणगमणचित्तं ति अध्या-मार्गस्तद्मने चित्तम्-अभिप्रायोऽध्वगमनचित्तं तत्करोतीव करोति, तत्त्वतो हि केवलित्वेनामनस्कत्वान्न तस्याभिप्रायकरणसम्भवः, 'धम्मट्ठय'त्ति आर्षत्वाद्धर्मार्थ-तत्त्वावबोधतस्तेषां ।। धर्मः स्यादित्येवमर्थ 'गीय'ति चस्य गम्यमानत्वाद्गीतं च-खरग्रामानुगतगीतिकानिबद्धमिदमेवाध्ययनं करोतीति 21 योगः, वर्तमाननिर्देशस्तु सूत्रस्य त्रिकालगोचरतामाह, यदिवा-'गीत'मिति खराद्यनुगमनेन शब्दितमिदमिति । ते । भावार्थः कथानकादवसेयः, तत्र च सम्प्रदायःतेणं' कालेणं तेणं समएणं कोसंबीए णयरीए जितसत्तू राया, कासवो बंभणो चोदसविज्जाठाणपारगो, रायणो । बहुमतो, वित्ती से उवकप्पिया, तस्स जसा णाम भारिया, तेसिं पुत्तो कविलो णाम, कासवो तंमि कविले खुड १ तस्मिन् काले तस्मिन् समये कौशाम्ब्यां नगर्या जितशत्रू राजा, काश्यपो ब्राह्मणः चतुर्दशविद्यास्थानपारगः, राज्ञो बहुमतः, वृत्तिस्तस्मै | उपकल्पिता, तस्य यशा नाम भार्या, तयोः पुत्रः कपिलो नाम, काश्यपस्तस्मिन् कपिले क्षुल्लक Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy