________________
कथं कर्तव्येति समुद्रदृष्टान्तः, तत्र हि दिव्यकामानां समुद्रजलोपमत्वमुक्तं, तथा च तदुपार्जनं महानायोऽनुपार्जनं तु महान् व्यय इति तत्त्वतो दर्शितमेव भवति ॥ इह च योगक्षेमासंवेदने कामानिवृत्त एव भवतीति | तस्य दोषमाह
इह कामानियहस्स, अत्तट्टे अवरज्झति । सुच्चा नेयाउअं मग्गं, जं भुजो परिभस्सति ॥ २५ ॥ | व्याख्या-'इह' इति मनुष्यत्वे जिनशासने वा, प्राप्त इति शेषः, कामेभ्योऽनिवृत्तः-अनुपरतः कामानिवृत्तः । तस्यात्मनोऽर्थ आत्मार्थः-अर्यमानतया स्वर्गादिः 'अपराध्यति' अनेकार्थत्वाद्धातूनां नश्यति, यद्वा-आत्मैवार्थ है आत्मार्थः स एवापराध्यति, नान्यः कश्चिदात्मव्यतिरिक्तोऽर्थः सापराधो भवति, उभयत्र दुर्गतिगमनेनेति भावः ।। आह-विषयवाच्छाविरोधिनि जिनागमे सति कथं कामानिवृत्तिसम्भवः ?, उच्यते, 'श्रुत्वा' आकर्ण्य 'नैयायिकं ४ न्यायोपपन्नं 'मार्ग' सम्यग्दर्शनादिकं मुक्तिपथं यद् ‘भूयः' पुनरपि परिनश्यति, कामानिवृत्तित इति शेषः, कोऽभि
प्रायः ?-जिनागमश्रवणात् कामनिवृत्तिं प्रतिपन्नोऽपि गुरुकर्मत्वात् प्रतिपतति, ये तु श्रुत्वापि तदप्रतिपन्नाः श्रवणं 18|च येषां नास्ति ते कामानिवृत्ता एवेतिभावः । यद्वा-यदसौ कामानिवृत्तः सन् श्रुत्वा नैयायिक मार्ग भूयः परिभ्र-13
श्यति-मिथ्यात्वं गच्छति तदस्यात्मार्थ एव गुरुकर्मापराध्यति, अनेन मा भूकस्यचिन्मूढस्य सिद्धान्तमधीत्याप्यु
SONASTERIOSASSIST
Jain Education
B
o nal
For Personal & Private Use Only
1
.jainelibrary.org