SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. व्याख्या-कुशाग्रशब्देन कुशाग्रस्थितो जलविन्दुरुपलक्ष्यते, तन्मात्राः-तत्परिमाणाः 'इमे' इति प्रत्यक्षाः 'कामाः' औरभ्री प्रकृतत्वान्मनुष्यविषयाः, कदा य इत्याह-सन्निरुद्धे' अत्यन्तसंक्षिप्ते, यद्वा सम्-एकीभावेन निरुद्धे-अध्यवसाना- याध्य. ७ बृहद्वृत्तिः दिभिरुपक्रमणकारणैरवष्टब्धे 'आयुषि' जीविते, अनेन मनुष्यायुपोऽल्पतया सोपक्रमतया वा कामानामल्पत्वमुक्तं, ॥२८३॥ समृद्धवाद्यल्पतोपलक्षणं चैतद् , अस्मिंस्त्वर्थ उक्ते दिव्यकामास्तु जलधिजलतुल्या इत्याद्गम्यते, 'कस्स हेउतिर सूत्रत्वात् तू कं हेतुं-कारणं 'पुरा काउंति तत एव पुरस्कृत्य-आश्रित्य, अलब्धस्य लाभो-योगो लब्धस्य च परिपालन है-क्षेमोऽनयोः समाहारो योगक्षेमं, कोऽर्थः ?-अप्राप्तविशिष्टधर्मप्राप्तिं प्राप्तस्य च परिपालनं 'न संवित्ते' न जानीते, . जन इति शेषः, तदसंवित्तौ हि मनुष्यविषयाभिष्वङ्ग एव हेतुः, ते च धर्मप्राप्यदिव्यभोगापेक्षयैवंप्रायाः, ततस्तत्त्यागतो विषयाभिलाषिणापि धर्म एव यतितव्यमित्यभिप्रायः, यद्वा-यतः कुशाग्रमात्रा-दर्भप्रान्तवदत्यल्पा इमे कामाः,x है तेऽपि न पल्योपमादिपरिमितौ द्राधीयस्यायुषि, किन्तु 'सन्निरुद्धे' संक्षिप्ते आयुपि, ततः 'कस्स हे'ति कस्माद्धेतोः पुरस्कृत्येव पुरस्कृत्य मुख्यतयाऽङ्गीकृत्य, असंयममिति शेषः, योगक्षेमम्' उक्तरूपं न संवित्ते, भावार्थस्त्वभिहित एवेति || || सूत्राथैः ॥ इत्थं दृष्टान्तपञ्चकमुक्तं, तत्र च प्रथममुरभ्रदृष्टान्तेन भोगानामायतावपायवहुलत्वमभिहितम् , आयतौ चापा- २८५॥ यवहुलमपि यन्न तुच्छं न तत्परिहर्तुं शक्यत इति काकिण्याम्रफलदृष्टान्ततस्तुच्छत्वं, तुच्छमपि च लाभच्छेदात्मकव्यवहारविज्ञतयाऽऽयव्ययतोलनाकुशल एव हातुं शक्त इति वणिग्व्यवहारोदाहरणम् , आयव्ययतोलनाऽपि च CAMERICA NC0 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy