SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ स्युर्लाभो वा न तथाविधस्तदा जयनमपि स्यात् , यदा तु लभमानौ भिक्ष्वगारिणौ दृश्येते लाभश्च देवत्वलक्षणः || तदा कथमयं जानानोऽपि जन्तुर्जीयते ?, अत आह-जीयमानो न संवित्ते, किमुक्तं भवति ?-यद्यसौ जीयमानो , जानीयात्तदा तदुपायपरतया न जीयेत, यदा त्वसौ विषयव्यामोहतो न जानीते तदा जीयत एवेति किमत्रचित्रम् ? इति सूत्रार्थः ॥ समुद्रदृष्टान्तमाह जहा कुसग्गे उदयं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाण अंतिए ॥ २३ ॥ | व्याख्या- यथा' इति दृष्टान्तोपन्यासे, कुशो-दर्भविशेषस्तस्याग्रं-कोटिः कुशाग्रं तस्मिन् 'उदकं' जलं, तत्किमित्याह-'समुद्रेण' इति 'तात्स्थ्यात्तद्यपदेश' इतिन्यायात समुद्रजलेन 'समं तुल्यं 'मिनुयात्' परिच्छिन्द्यात्, तथा किमित्याह-'एवम्' उक्तनीत्या 'मानुष्यकाः कामाः मनुष्यसम्बन्धिनः कामा-विषयाः, मानुष्यविशेषणं तु तेषामेवोपदेशार्हत्वाद्विशिष्टभोगसम्भवाच्च, 'देवकामानां' दिव्यभोगानाम् 'अन्तिके' समीपे, कृता इति शेषः, दूरस्थितानां हि न सम्यगवधारणमित्येवमाह, किमुक्तं भवति ?-यथाऽज्ञः कश्चित् कुशाग्रस्थितं जलबिन्दुमालोक्य हो समुद्रवन्मन्यते, एवं मूढाश्चकवादिमनुष्यकामान् दिव्यभोगोपमान अध्यवस्यन्ति, तत्त्वतस्तु कुशाग्रजलबिन्दोरिव समुद्रान्मनुष्यकामानां दिव्यभोगेभ्यो महदेवान्तरमिति सूत्रार्थः ॥ उक्तमेवार्थ निगमयन्नुपदेशमाह कुसग्गमित्ता इमे कामा, सन्निरुडंमि आउए । कस्स हे पुरा काउं, जोगक्खेमं न संविदे? ॥२४॥ Jain Education International For Personal & Private Use Only I llainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy