________________
उत्तराध्य.
बृहद्वृत्तिः
॥२८२॥
व्याख्या- 'एवम्' अमुना न्यायेन लाभान्वितं 'अदीणव'न्ति दीवतौ दीनवन्तं न तथाऽदीनवन्तम् - अदीनं, | दैन्यरहितमित्यर्थः 'भिक्षु' यतिम् 'अगारिणं' च गृहस्थं 'विज्ञाय' विशेषेण तथाविधशिक्षावशाद्देवमनुजगामित्वलक्षणेन 'ज्ञात्वा' अवगम्य, यतमान इति शेषः, 'कथम् ' ? केन प्रकारेण ?, न कथञ्चिदित्यर्थः, 'नुः' वितर्के, 'जिचं' ति सूत्रत्वात् जीयेत -हार्येत विवेकी, तत्प्रतिकूलैः कषायोदयादिभिरिति गम्यते, 'ईदृक्षम्' अन्तरोक्तं देवगत्यात्मकं लाभं 'जिच्चमाणो 'ति वाशब्दस्य गम्यमानत्वाज्जीयमानो वा -हार्यमाणः, तैरेव कषायादिभिः 'न संविदे' त्ति सूत्रत्वान्न संवित्ते न जानीते यथाऽहमेभिर्जीये इति, कथं न्वितीहापि योज्यते, ततोऽयमर्थः - कथं नु न संवित्ते ? संवित्त एव, जानीत एव ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया च तन्निरोधं प्रति प्रवर्तत एव, इत्येवं च वदन् काक्कोपदिशति - यत एवं ततो यूयमप्येवं जानाना यथा न देवगतिलक्षणं लाभं जीयेध्वं कषायादिभिस्तथा यतध्वं कथञ्चिज्जीयमानाश्च सम्यग् | विज्ञाय तत्प्रतीकारायैव प्रवर्तध्वमिति यद्वा-एवमदीनवन्तं भिक्षुमगारिणं च विज्ञाय यतमानो 'जिचं' ति जीयतेहार्यते अतिरौद्रैरिन्द्रियादिभिः आत्मा तदिति ज्ञेयं, तच्चेह प्रक्रमान्मनुष्यदेवगतिलक्षणम्, 'एलिक्खं 'ति सुध्यत्ययादीदृक्षोऽभिहितार्थाभिज्ञः कथं नु जीयमानो न संवित्ते ?, अपि तु संवित्त एव, संविदानश्च यथा न जीयेत तथा यतेतेत्यभिप्रायः । अथवा - एवमदीनवन्तं भिक्षुमगारिणं च लब्धलाभं विज्ञाय यतमानः कथं नु 'जिचं'ति आर्पत्वाज्जीयते-हार्यते, विषयादिभिरिति गम्यते, ईदृक्षं देवगतिलक्षणं लाभमिति शेषः, अयमाशयो- यदि लभमाना न विज्ञाताः
Jain Education International
For Personal & Private Use Only
औरश्री
याध्य. ७
॥२८२ ॥
www.jainelibrary.org