________________
RE- EXAMSAX
एवं जियं सपेहाए, तुलिया बालं च पंडियं । मूलियं ते पविस्संति, माणुसं जोणिमिति जे ॥१९॥ व्याख्या-'एवम्' उक्तनीत्या 'जिए'त्ति सुब्व्यत्ययाजितं लोलतया शाठ्येन च देवमनुजवे हारितं बालमिति प्रक्रमः, 'सपेहाए'त्ति सम्प्रेक्ष्य सम्यगालोच्य, तथा तोलयित्वेव तोलयित्वा-गुणदोषवत्तया परिभाव्य, यदिवैवं जितं सम्यग्-अविपरीता प्रेक्षा-बुद्धिः सम्प्रेक्षा तया तोलयित्वा, कम् ?-'बालं' चस्य भिन्नक्रमत्वात् 'पण्डितं च तद्विपरीतम् ,अथवा मनुष्यदेवगतिगामिनम् , इह च द्वितीयव्याख्यायामेवं जितमिति बालस्य विशेषणं, न तु पण्डितस्य, असम्भवात् , तथा च सति मूले भवं मौलिकं-मौलधनं ते प्रवेशयन्तीव प्रवेशयन्ति, मूलप्रवेशकवणिकसदृशास्त इत्यभिप्रायः, ये किमित्याह-'माणुस्सं'ति मनुष्याणामियं मानुषी तां 'योनिम्' उत्पत्तिस्थानम् 'आयान्ति' आगच्छन्ति, बालत्वपरिहारेण पण्डितत्वमासेवमाना ये त इति सूत्रार्थः॥ यथा च मानुषीं योनिमायान्ति तथा चाह
वेमायाहिं सिक्खाहिं, जे नरा गिहि सुब्वया। उविति माणुसं जोणी, कम्मसच्चा हु पाणिणो ॥२०॥ व्याख्या-विविधा मात्रा-परिमाणमासां विमात्राः-विचित्रपरिमाणाः ताभिः परिमाणविशेषमाश्रित्य विसहशीभिः 'शिक्षाभिः' प्रकृतिभद्रकत्वाद्यभ्यासरूपाभिः, उक्तं हि-"चउहिं ठाणेहिं जीवा मणुयाउं बंधंति, तंजहापगतिभद्दयाए पगतिविणीययाए साणुक्कोसयाए अमच्छरियाए"त्ति 'ये' इत्यविवक्षितविशेषाः 'नराः' पुरुषाः,
१ चतुर्भिः स्थानर्जीवा मनुजायुर्बध्नन्ति, तद्यथा-प्रकृतिभद्रकतया प्रकृतिविनीततया सानुक्रोशतया अमत्सरितया ।
dain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org