SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. | - यतोऽयं बालो लोलताशठः ततो नरकगतितिर्यग्गतिनिबन्धनाभ्यां लोलताशठत्वाभ्यां देवत्वमनुजत्वे हारितस्या| स्योक्तरूपा द्विविधैव गतिः सम्भवति, एवं च मूलच्छेदेन जीवानां नरकतिर्यक्त्वमुच्यते, मूलं हि मनुष्यत्वं लाभश्च बृहद्वृत्तिः देवत्वम्, उभयोरपि तयोहरणादिति सूत्रार्थः ॥ पुनर्मूलच्छेदमेव समर्थयितुमाह ॥२८०॥ ततो जिएसई होइ, दुविहं दुग्गतिं गते । दुल्लहा तस्स उम्मज्जा, अडाए सुचिरादवि ॥ १८ ॥ व्याख्या- ' ततः' देवत्व मानुषत्वजयनात् तको वा वालः 'जिय'त्ति व्यवच्छेदफलत्वाद्वाक्यस्य जित एव 'सति'त्ति सदा भवति 'द्विविधां' नारकतिर्यग्भेदां, दुर्निन्दायां, दुष्टा - निन्दिता गतिर्दुर्गतिस्तां 'गतः' प्राप्तः, सदा| जितत्वमेवाभिव्यनक्ति- 'दुर्लभाः' दुष्प्रापाः 'तस्ये'ति देवमनुजत्वे हारितवतो बालस्य ' उम्मज 'त्ति सूत्रत्वादुन्म| जनमुन्मज्जा-नरकतिर्यग्गतिनिर्गमनात्मिका, स्यादेतत्- चिरतरका लेनोन्मजाऽस्य भविष्यति, अत आह- ' अद्धायां' काले अर्थादागामिन्यां, किं खल्पायामेव ?, इत्याह - सुचिरादपीत्यद्वाशब्देनैव कालाभिधानात् सुचिराच्छन्दः प्रभूतत्वमेवाह, ततोऽयमर्थः - अनागताद्धायां प्रभूतायामपि, बाहुल्याचेत्थमुक्तम्, अन्यथा हि केचिदेकभवेनैव तत | उद्धृत्य मुक्तिमप्यामुवन्त्येवेति सूत्रार्थः ॥ इत्थं पश्चानुपूर्व्यपि व्याख्याङ्गमिति पश्चादुक्तेऽपि मूलहारिण्युपनयमुपदर्श्य मूलप्रवेशिन्यभिधातुमाह - यद्वा विपक्षापायपरिज्ञानतयैवोपादेये प्रवृत्तिरिति पश्चादुक्तमपि मूलहारिणमा| दावुपदश्यैतदाह Jain Education International For Personal & Private Use Only औरश्री याध्य. ७ ॥२८० ॥ www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy