________________
यथा मूलच्छेदेन नरकतिर्यक्त्वप्राप्तिः तथा खयं सूत्रकृदाह
दुहओ गती बालस्स, आवती वहमूलिया। देवत्तं माणुसत्तं च, जं जिए लोलुआसढे ॥१७॥ व्याख्या-'दुहतो'त्ति द्विधा द्विप्रकारा, गस्यत इति गतिः, सा चेह प्रक्रमानरकगतिस्तिर्यग्गतिश्च, कस्येत्याह'बालस्य' द्वाभ्यां रागद्वेषाभ्यामाकुलितस्य, 'आवइ'त्ति आगच्छत्यापतति वधः-प्राणिघातः, उपलक्षणत्वान्महारम्भमहापरिग्रहानृतभाषणमायादयश्च मूलं-कारणं यस्याः सा वधमूलिका, यदिवा-द्विधा गतिर्वालस्य, भवतीति गम्यते, तत्र च गतस्य 'आवइ'त्ति आपत् , सा च कीदृशीत्याह-वधो-विनाशस्ताडनं वा मूलम्-आदिर्यस्याः सा वधमू-४ लिका, वधग्रहणाच्छेदभेदातिभारारोपणादिपरिग्रहः, लभन्ते हि प्राणिनो नरकतिर्यक्षु विविधा वधाद्यापदः, किमि-* त्येवम् , अत आह-'देवत्वं' देवभवं 'मानुपत्वं' मनुजभवं 'यद्' यस्मात् 'जितो' हारितो 'लोलयासढे'त्ति लोलतापिशितादिलाम्पट्यं तद्योगाजन्तुरपि तन्मयत्वख्यापनार्थं लोलतेत्युक्तः, शाठ्ययोगाच्छठः-विश्वस्तजनवञ्चकः, ततो लोलता चासौ शठश्च लोलताशठः, इह च लोलता पञ्चेन्द्रियवधाधुपलक्षणं, तथा च नरकहेतुत्वाभिधानमेतत् , यदुक्तम्-"महारंभयाए महापरिग्गयाए कुणिमाहारेणं पंचेंदियवहेणं जीवा णेरयाउयं णियच्छंति” शठ इत्यनेन तु शाठ्यमुक्तं, तच्च तिर्यग्गतिहेतुः, उक्तंच-"माया तैर्यग्योनस्ये" (तत्त्वार्थे अ०६-सू० १७) ति, अतश्चायमाशयः १ महारम्भतया महापरिग्रहतया मांसाहारेण पञ्चेन्द्रियवधेन जीवा नैरयिकायुनियमयन्ति ।
Jain Education Internationa
For Personal & Private Use Only
www.jainelibrary.org