________________
उत्तराध्य.
बृहद्वृत्तिः
॥२७९॥
HARSARKARSA
सम्प्रति सूत्रमनुत्रियते-'व्यवहारे' व्यवहारविषया 'उपमा' सादृश्यं 'एषा' अनन्तरोक्ता एवं' वक्ष्यमाणन्यायेन औरभ्री'धर्म' धर्मविषयामेवोपमा 'विजानीत' अवबुध्यध्वमिति सूत्रार्थः ॥ कथमित्याह
याध्य.७ ___माणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥ १६॥ ___ व्याख्या-'मानुषत्वं' मनुजत्वं भवेत्' स्यात् मूलमिव मूलं, खर्गापवर्गात्मकतदुत्तरोत्तरलाभहेतुतया, तथा
लाभ इव लाभः मनुजगत्यपेक्षया विषयसुखादिभिर्विशिष्टत्वात् 'देवगतिः' देवत्वावाप्तिर्भवेत् , एवं च स्थिते किमि-४ है त्याह-'मूलच्छेदेन' मानुषत्वगतिहान्यात्मकेन 'जीवानां प्राणिनां 'नरकतिर्यक्त्वं' नरकत्वं तिर्यक्त्वं च तद्गत्या
त्मकं 'ध्रुवं' निश्चितम् , इहापि सम्प्रदायः-ति न्नि संसारिणो सत्ता माणुस्सेसु आयाता, तत्थेगो मद्दवजवादिगुणसंपन्नो मज्झिमारंभपरिग्गहजुत्तो कालं काऊण काहावणसहस्समूलत्थाणीयं तमेव माणुस्सत्तं पडिलहति, वितितो । पुण सम्मइंसणचरित्तगुणसुपरिट्टितो सरागसंजमेण लद्धलाभवणिय इव देवेसु उववन्नो, ततितो पुण हिंसे बाले ४ मुसावाती इचेतेहिं पुश्वभणितेहिं सावजजोगेहिं वट्टिउं छिन्नमूलवणिय इव णारगेसु तिरिएसु वा उववजतित्ति सूत्रार्थः॥
१ त्रयः संसारिणः सत्त्वा मानुषेष्वायाताः, तत्रैको मार्दवार्जवादिगुणसंपन्नो मध्यमारम्भपरिग्रहयुक्तः कालं कृत्वा कार्षापणसहस्रमूलस्था- ॥२७९॥ ४ नीयं तदेव मानुषत्वं प्रतिलभते, द्वितीयः पुनः सम्यग्दर्शनचारित्रगुणसुपरिस्थितः सरागसंयमेन लब्धलाभवणिगिव देवेषूत्पन्नः, तृतीयः४
पुनर्हिस्रो बालो मृषावादीयेतैः पूर्वभणितैः सावद्ययोगैः वर्त्तित्वा छिन्नमूलवणिगिव नारकेषु तिर्यक्षु वोत्पद्यते इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org