SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनेषु पञ्चममध्ययनम् । | ॥ उक्तं चतुर्थमध्ययनं, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने 'काङ्केत् गुणान् यावच्छरीरस्य भेद'इत्यभिदधता मरणं यावदप्रमादोऽनुवर्णिणतः, ततो मरणकालेऽप्यप्रमादो विधेयः, स च मरणविभागपरिज्ञानत एव भवति, ततो हि बालमरणादि हेयं हीयते पण्डितमरणादि चोपादेयमुपादीयते, तथा च तत्त्वतोऽप्रमत्तता जायते, इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयमुपवण्य तावद्यावन्नामनिष्पन्ननिक्षेपे 'अकाममरणीयम्' इति नाम, तत्र च काममरणप्रतिपक्षोऽकाममरणम् , अतः कामानां मरणस्य च निक्षेपः कार्यः, तत्र काममरणयोनिक्षेपं प्रतिपादयितुमाह नियुक्तिकृत् कामाण उ णिक्खेवो चउविहो छविहो य मरणस्स । कामा पुबुदिट्टा पगयमभिप्पेयकामेहि ॥ २०८ ॥ P] व्याख्या-काम्यन्त इति कामास्तेषां, तुः पूरणे, निक्षेपश्चतुर्विधः, षड्विधश्च मरणस्य, भवतीत्युभयत्र गम्यते, तत्र कामाः पूर्वोद्दिष्टाः पूर्व-श्रामण्यपूर्वकनाम्नि दशवैकालिकद्वितीयाध्ययने उद्दिष्टाः-कथिताः, तत्र तेषामनेकधा । वर्णनात् , यैरत्र प्रकृतं तान् दर्शयितुमाह-प्रकृतम्' अधिकृतम् , 'अभिप्रेतकामैः' इच्छाकामैरिति गाथार्थः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy