SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥२२९॥ ॥१॥पड्विधं मरणमिति यदुक्तं, तत्र नामस्थापने प्रतीते एवेत्यनादृत्य शेषचतुष्टयमाह । अन्ये त्वत्र नामादि- अकामषविधनिक्षेपोद्देशाभिधायिनीमपि गाथामधीयते, तत्र नामस्थापने प्राग्वत् , द्रव्यादिचतुष्टयाभिव्यअनार्थमाह- || मरणाध्य. दवमरणं कुसुंभाइएसु भावि आउक्खओ मुणेयवो । ओहे भवतब्भविए मणुस्सभविएण अहिगारो॥ | व्याख्या-द्रव्यस्य मरणं द्रव्यमरणं, कुसुम्भादिकेषु, आदिशब्दादन्नादिपरिग्रहः, यद्यस्य खकार्यसाधनं प्रति समर्थ || रूपं तत्तस्य जीवितमिति रूढं, तदभावस्तु मरणं, ततश्च कुसुम्भादे रञ्जनादि खकार्यसामर्थ्य जीवितं, तदभावस्तु मरणं, तथा च लोके मृतं कुसुम्भकमरजकं, मृतमन्नमव्यअनमित्याद्युपदिश्यते, क्षेत्रमरणं तु यस्मिन् क्षेत्रे मरणम्-इङ्गिनीमरणादि वर्ण्यते क्रियते वा, यदा वा तस्य शस्याद्युत्पत्तिक्षमत्वमुपहन्यते तदा तत् क्षेत्रमरणं, कालमरणं यस्मिन् काले| मरणमुपवर्ण्यते क्रियते वा, कालस्य वा ग्रहोपरागादिना वृष्टयादिखकाकरणम् , एते च सुगमत्वात्तत्त्वतो द्रव्यमरणाभिन्नत्वाच्च नियुक्तिकृता पृथग नोक्ते, यत्तु निक्षेपगाथायां पडूविध इतिवचनात् अनयोर्भेदेनाभिधानं तद्विवक्षितवस्तुवैशिष्ट्यदर्शकं, न हि ताभ्यां विना नियतदेशत्वादिकं वस्तुनो वैशिष्टयमाख्यातुं शक्यमिति, 'भावे' भावविषये ॥२२९॥ निक्षेपे आयुषो-जीवितस्य क्षयो-ध्वंसः आयुःक्षयो 'मुणितव्यो' ज्ञातव्यो, मरणमित्युपस्कारः, तदपि च त्रिविधम् १ नामंठवणादविए खित्ते काले तहेव भावे य । मरणस्स उ णिक्खेवो नायव्वो छब्विहो एसो ॥ १॥ For Personal & Private Use Only Jan Education International www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy