SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् उत्तराध्य. तत्वात्संसर्ग, हसनं हासस्तं, क्रीडां च अन्ताक्षरिकाप्रहेलिकादानादिजनितां च 'वर्जयेत्' परिहरेत् सर्वेषामप्येषा बृहद्वृत्तिः विशिष्टशिक्षाक्षितिहेतुत्वात् लोकागमविरुद्धत्वाचेति सूत्रार्थः ॥९॥ पुनरन्यथा विनयमाह मा य चंडालियं कासी, बहुयं मा य आलवे।कालेण यअहिजित्ता, तत्तो झाइज इक्कओ॥१०॥(सूत्रम्) ॥४७॥ __ व्याख्या-'मा' निषेधे 'चः' समुच्चये, चण्ड:-क्रोधस्तद्वशादलीकम्-अनृतभाषणं चण्डालीकं, भयालीकाद्युपल क्षणमेतत् , यद्वा-चण्डेनाऽऽलमस्य चण्डेन वा कलितश्चण्डालः, स चातिक्रूरत्वाचण्डालजातिस्तस्मिन् भवं दचाण्डालिकं कर्मेति गम्यते, अथवा अचण्ड ! सौम्य ! अलीकम्-अन्यथात्वविधानादिभिरसत्यं, गुरुवचनमागमं चेति गम्यते, ‘मा कार्षीः' मा विधाः, भगवदुद्दिष्टतिलोत्पाटकखेच्छालापिगोशालकवत् , बह्येव बहुकम्-अपरिमित मालजालरूपं ‘मा च' इति प्राग्वत् , आङिति-ख्यादिकथाऽभिव्याप्त्या लपेत्-भाषेत, बह्वालापनात् ध्यानाध्ययनक्षितिवातक्षोभादिसम्भवात् , किं पुनः कुर्यादित्याह-कालः अध्ययनाद्यवसरः प्रथमपौरुष्यादिस्तेन, 'चः' पुनरर्थे, 'अधीय' पठित्वा, प्रच्छनाद्युपलक्षणमेतत् , 'ततः' अध्ययनात् , अनन्तरमिति गम्यते, 'ध्यायेत्' चिन्तयेत्, 'एकक' इति भावतो रागद्वेषादिसाहित्यरहितः, द्रव्यतस्तु विविक्तशय्यादिसंस्थः, इत्थं हि चाण्डालिककरणाद्यनुस्थानमधीतार्थस्थिरीकरणं च कृतं भवतीति भावः । इह च पादत्रयेण साक्षाद्वाग्गुप्तिरुक्ता, ध्यायेदित्यनेन मनोगुप्तिः, 4॥४७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy