________________
याभिधायकानि, अर्थादागमवचांसि, यद्वा-मुमुक्षुभिरर्यमानत्वादर्थो-मोक्षस्तत्र युक्तानि-उपायतया सङ्गतानि अर्थ वा-अभिधेयमाश्रित्य युक्तानि-यतिजनोचितानि 'शिक्षेत' अभ्यस्येत् , प्रपञ्चितज्ञविनेयानुग्रहाय व्यतिरेकत | आह–निरर्थकानि' उक्तविपरीतानि डित्थडवित्थादीनि, यद्वा वैश्यिकवात्स्यायनादीनि स्त्रीकथादीनि चा 'तुः' पुनरर्थे 'वर्जयेत्' परिहरेत् , इह च निशान्त इत्यनेन प्रशमादीनामुपलक्षितत्वात् तेषां च दर्शनाविनाभावित्वाद् दर्शनस्य च जिनोक्तभावश्रद्धानरूपत्वात् तस्यैव दर्शनविनयत्वात् अर्थतो दर्शनविनयो दर्शितः, उक्तं हि प्राक्-“दवाण सवभावा उवइट्ठा जे जहा जिणिदेहिं । तं तह सद्दहइ णरो दंसणविणओ हवति तम्हां ॥१॥" शेषेण तु श्रुतज्ञानशिक्षाऽभिधायिना ज्ञानदर्शन(ज्ञान)विनय उक्तः, तत्खरूपमाह-"णाणं सिक्खइ णाणं गुणेइ णाणेण" त्ति
सूत्रार्थः ॥ ८॥ कथं पुनरर्थयुक्तानि शिक्षेतेत्याहहै अणुसासिओ न कुप्पिजा, खंति सेवेज पंडिए। बालेहिं सह संसग्गि, हासं कीडं च वजए ॥९॥ (सूत्रम्)
व्याख्या-'अनुशिष्ट' इति अर्थयुक्तानि शिक्ष्यमाणः कथञ्चित् स्खलितादिषु गुरुभिः परुषोक्त्याऽपि शिक्षितः 'न कुप्येत्' न कोपं गच्छेत् , किं तर्हि कुर्यादित्याह-'क्षान्ति' परुषभाषणादिसहनात्मिकां 'सेवेत' भजेत, पण्डादिबुद्धिः सा साताऽस्येति पण्डितः, तथा 'क्षुद्रः' वालैः शीलहीनैर्वा पार्थस्थादिभिः 'सह' समं 'संसम्गि' ति प्राकृ-IA
१ विनयव्याख्यानावसरे टीकायां नियुक्तेः गाथे क्रमेण सप्तमी अष्टमी च. २ खुड्डेहिं इति टीका. ३ पण्डा तत्त्वानुगा बुद्धिरित्युक्तेः.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org