________________
आद्यपादोत्तरव्याख्यानद्वयेन तु कायगुप्तिरपि, एताश्च चारित्रान्तर्गता एव, यदुक्तम्-“पणिहाणजोगजुत्तो पंचहि समितीहि तिहिं गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ णायचो ॥ १ ॥" न च चारित्राचारस्तत्त्वतश्चरित्रविनयादतिरिच्यते इति देशतस्तस्याप्यनेनाभिधानमिति सूत्रार्थः ॥ १०॥ इत्थमकृत्यनिषेधः कृत्यविधिश्चोपदिष्टः, कदाचिदेतद्विपर्ययसम्भवे च किं करणीयमित्याहआहच्च चंडालियं कछु, न निण्हविज कण्हुइ। कडं कडंति भासिजा, अकडं नो कडंति य॥११॥ (सूत्रम्) | व्याख्या-'आहत्य' कदाचित् चण्डालीकं च चाण्डालिकं चोक्तरूपं यद्वा चण्डश्चालीकं च चण्डालीक 'कृत्वा' विधाय 'न निन्हुवीत' न कृतमेवेति नापलपेत् , कदाचिदपि, यदा परैरुपलक्षितो यदा वा नोपलक्षितस्तदापीत्यर्थः, किं तर्हि कुर्यादित्याह-'कृतं' विहितं चाण्डालिकादि 'कृतमिति' इति कृतमेव, न भयलजादिभिरकृ-ल.
तमपि 'भाषेत' ब्रूयात् , 'अकृतं' तदेवाविहितं 'नो कृतमिति' अकृतमेव भाषेत, न तु मायोपरोधादिना कृत४ मपि, अन्यथा मृषावादादिदोषसम्भवात्, उपलक्षणत्वाचास्य बह्वनालपनकालाध्ययनादिविपर्ययसम्भवेऽप्येतदेव
कृत्यम् , इदं चात्राकूतं-कथञ्चिदतिचारसम्भवे लज्जाद्यकुर्वन् स्वयं गुरुसमीपमागत्य-'जह बालो जंपंतो कजम* १ प्रणिधानयोगयुक्तः पञ्चभिः समितिभिस्तिमृभिर्गुप्तिभिः । एष चारित्राचारोऽष्टविधो भवति ज्ञातव्यः ॥१॥ २ यथा बालो ||जल्पन कार्यमकार्य च ऋजुकं भणति । तत् तथाऽऽलोचयेत् मायामदविप्रमुक्तस्तु ॥ १॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org