________________
अध्ययनम्
उत्तराध्य. बृहद्वृत्तिः ॥४५॥
आह-दौःशील्यनिमित्त एवायमविनीतस्य दोषः, प्रत्यनीकतामुखरत्वयोरपि तत्प्रभवत्वात् तत्र चैवमनर्थहेतौ किमसौ प्रवर्तत इति, अत्रोच्यते, पापोपहतमतित्वेन तत्रैवास्याभिरतिरितिकृत्वा, तामेव दृष्टान्तपूर्विकामाहकणकुंडगं जहित्ता णं, विटं भुंजइ सूयरो । एवं सीलं जहित्ता णं, दुस्सिले रमइ मिए ॥५॥ (सूत्रम्) | व्याख्या-कणाः-तन्दुलास्तेषां तन्मिश्रो वा कुण्डकः-ततक्षोदनोत्पन्नकुकसः कणकुण्डकस्तं 'हित्वा' पाठान्तरतस्त्यक्त्वा वा 'विष्ठां' पुरीषं 'भुते' अभ्यवहरति 'सूकर' इति गर्तासूकरो, यथेति गम्यते, एवं 'शीलम्' उक्तरूपं प्रस्तावाच्छोभनं 'हित्वा' प्राग्वत्त्यक्त्वा वा दुष्टं शीलं दुःशीलं तस्मिन् भावप्रधानत्वाद्वा निर्देशस्य दुष्टं शीलमस्येति । दुःशीलस्तद्भावो दौःशील्यं तस्मिन् , उभयत्र दुराचारादौ 'रमते' धृतिमाधत्ते मृग इव मृगः अज्ञत्वादविनीत इति प्रक्रमः, इदमत्र हृदयं-यथा मृग उद्गीर्णासिपुत्रिकगौरिगायनपुरुषहेतुकमायतौ मृत्युरूपमपायमपश्यन्नज्ञः, एवमयमपि दौःशील्यहेतुकमागामिनं भवभ्रमणलक्षणमपायमनालोकयन्नज्ञ एव सन् गर्तासूकरोपमः सदा पुष्टिदायिकणकुण्डकसदृशं शीलमपहाय विवेकिजनगर्हिततया विष्ठोपमे दुःशीले दौःशील्ये वा रमते, इह च दृष्टान्तेऽपि विड्भुक्त्यभिरतिरेवार्थत उक्ता, तदविनाभावित्वात्तस्याः, यद्वा शुभपरिहारेणाशुभाश्रयणमुभयत्रापि सादृश्यनिमित्तमस्तीति नोपमानोपमेयभावविरोध इति सूत्रार्थः॥५॥ उक्तोपसंहारपूर्वकं कृत्योपदेशमाह
॥४५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org