________________
सुणियाभावं साणस्स, सूयरस्स नरस्स य ।विणए ठविज्ज अप्पाणं, इच्छंतो हियमप्पणो॥६॥(सूत्रम्)
व्याख्या-'श्रुत्वा' आकर्ण्य 'अभावं' नञः कुत्सायामपि दर्शनादशोभनं भावं-सर्वतो निष्काशनलक्षणं पर्याय 'साणस्स' त्ति प्राकृतत्वादिवेत्यस्य गम्यमानत्वात् शून्या इव 'सूकरस्य' उक्तन्यायेन शूकरोपमस्य नरस्य, 'चः' पूरणे, यद्वा शून्याः शूकरस्य च दृष्टान्तस्य नरस्य च दार्टान्तिकस्याशोभनं भावं त्रयाणामप्युक्तरूपं श्रुत्वा, किमित्याह-विनये' वक्ष्यमाणखरूपे, स्थापयेदात्मानम्, आत्मनैवेति गम्यते, 'इच्छन्' वाञ्छन् 'हितम् ऐहिकमामुष्मिकं च पथ्यम् 'आत्मनः' स्वस्य, इह च पुनर्दृष्टान्ताभिधानमुपसंहारत्वेनाविनये शिष्यस्याशुभभावस्योत्पादनार्थत्वेन वा नाप्रकृतमिति सूत्रार्थः॥६॥ यतश्चैवं ततः किमित्याह| तम्हा विणयमेसिज्जा, सीलं पडिलभे जओ। बुद्धउत्ते नियागट्टी, न निक्कसिज्जइ कण्हुइ ॥७॥ (सूत्रम्)/1 ___ व्याख्या-तस्माद्' इति यस्मादविनयदोपदर्शनादात्मा विनये स्थापनीयस्तस्मात् विनयम् 'एषयेत्' अनेकार्थत्वेन धातूनां पर्यवसितवृत्त्या वा कुर्यात्, एवं ह्यात्मा विनये स्थाप्यत इति, किं पुनरस्य विनयस्य फलं ? येनैवमत्रा|त्मनोऽवस्थापनमुद्दिश्यत इत्याशङ्क्याह-'शीलम्' उक्तरूपं 'प्रतिलभेत' प्राप्नुयात् 'यत' इति विनयात्, अनेन विनयस्य शीलावाप्तिः फलमुक्तम् , अस्थापि किं फलमित्याह-बुद्धः-अवगततत्त्वैस्तीर्थकरादिभिरुक्तम्-अभिहितं,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org