________________
गततत्त्वः, 'अविनीतः' अविनयवान् ‘इत्युच्यते' इति पूर्वदिति सूत्रार्थः ॥ ३ ॥ साम्प्रतं दृष्टान्तपूर्वकमिहैवास्य ६ सदोषतामाहजहा सुणी पुईकण्णी, णिक्कसिज्जइ सबसो। एवं दुस्सीलपडिणीए, मुहरि निक्कसिज्जइ ॥४॥ (सूत्रम्)
व्याख्या-'यथा' इत्युपदर्शने, श्वसितीति शुनी, स्त्रीनिर्देशोऽत्यन्तकुत्सोपदर्शकः, पूती-परिपाकतः कुथिदातगन्धौ कृमिकुलाकुलत्वाद्युपलक्षणमेतत् , तथाविधौ कौँ-श्रुती यस्याः पत्करक्तं वा पूतिस्तद्याप्तौ कौँ यस्याः
सा पूतिकर्णा, सकलावयवकुत्सोपलक्षणं चैतत् , सा चेदृशी शुनी किमित्याह-निष्काश्यते' निर्वास्यते बहिनिःसाकायत इतियावत् , कुतः ?-'सबसो' ति सर्वतः सर्वेभ्यो गोपुरगृहाङ्गणादिभ्यः सर्वान् वा हतहतेत्यादिविरूक्षवचनलतालकुटलेष्टुघातादिकान् प्रकारानाश्रित्य 'छन्दोवत् सूत्राणि भवन्तीति छान्दसत्वाच सूत्रे शस्प्रत्ययः । उपनयमाह-'एवम्' अनेनैव प्रकारेण, दुष्टमिति-रागद्वेषादिदोषविकृतं शीलं-खभावः समाधिराचारो वा यस्यासी दुःशीलः, प्रत्यनीकः प्राग्वत् , मुखेनारिमावहति मुखमेव वेहपरलोकापकारितयाऽरिरस्य मुधैव वा कार्य विनवा
रयो यस्यासौ मुखारिर्मुधारिा-बहुविधासम्बद्धभाषी, सूत्रत्वाद्वा 'मुहरि' ति मुखरो-चाचाटो निष्काश्यते 'सर्वतः' द इतीहापि योज्यते, ततश्च सर्वतो निष्काश्यते, सर्वथा कुलगणसङ्घसमवायवहिर्वर्ती विधीयत इति सूत्रार्थः॥४॥
Jain Education Interational
For Personal & Private Use Only
wwwbar og