________________
अध्ययनम्
उत्तराध्य.
बृहद्वृत्तिः
॥४४॥
RACKASAX
चार्यादीनामुप-समीपे पतनं-स्थानमुपपातः-दृगवचनविषयदेशावस्थानं तत्कारकः-तदनुष्ठाता, न तु गुर्वादेशादिभीत्या तब्यवहितदेशस्थायीतियावत् , तथेङ्गितं-निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकमीपगृशिरःकम्पादि आकारः-स्थूलधीसंवेद्यः प्रस्थानादिभावाभिव्यञ्जको दिगवलोकनादिः, आह च-"अबलोयणं दिसाणं वियंभणं साडयस्स संठवणं । आसणसिढिलीकरणं पट्टियलिंगाई एयाइं ॥१॥" अनयोद्वन्द्वे इङ्गिताकारौ तौ अर्थाद्गुरुगतौ सम्यक् प्रकर्षेण जानाति इङ्गिताकारसम्प्रज्ञः, यद्वा-इङ्गिताकाराभ्यां गुरुगतभावपरिज्ञानमेव कारणे कार्योपचारादिङ्गिताकारशब्देनोक्तं, तेन सम्पन्नो-युक्तः, 'स' इत्युक्तविशेषणान्वितः 'विनीतः' विनयान्वितः, 'इति सूत्रपरामर्श, उच्यते, तीर्थकृद्गणधरादिभिरिति गम्यते, अनेन च खमनीषिकाऽपोहमाह इति सूत्रार्थः ॥२॥ इह विनयोऽभिधित्सितः, स च विपर्ययाभिधान एव तद्विविक्ततया सुखेन ज्ञातुं शक्यत इत्यविनयं धर्मिद्वारेणाहआणाऽनिदेसकरे, गुरुणमणुववायकारए । पडिणीए असंबुद्धे, अविणीएत्ति वुच्चइ॥३॥ (सूत्रम्) व्याख्या-पादद्वयं प्राग्वत् , नवरं नयोजनाद्यतिरेकतो व्याख्येयं, 'प्रत्यनीकः' प्रतिकूलवर्ती शिलाऽऽक्षे- पककूलवालकश्रमणवत्, दोषानीकं प्रति वर्तत इति प्रत्यनीकः, किमित्येवंविधोऽसावित्याह-'असम्बुद्धः' अनव
१ अवलोकनं दिशां विजृम्भणं शाटकस्य संस्थापनम् । आसनशिथिली (श्लथी करणं प्रस्थितलिङ्गान्येतानि ॥ १ ॥
ANSLANA
॥४४॥
Jain Education International
www.jainelibrary.org
For Personal & Private Use Only