________________
ASSOCIAS
तदेव वक्तव्यं, चकारस्थानुक्तसमुच्चयार्थत्वात् , संयुक्तकसंयोगः सम्भवन्त इतरेतरसंयोगशेषभेदाश्च वाच्याः, तत्र क्षेत्रस्य संयुक्तकसंयोगो यथा-जम्बूद्वीपः खप्रदेशसंयुक्तक एव लवणसमुद्रेण युज्यते, इतरेतरसंयोगः क्षेत्रप्रदेशानामेव परस्परं धर्मास्तिकायादिप्रदेशैर्वा संयोगः, एवं कालभावयोरपि नेयमिति गाथार्थः ॥ ६३॥ इह चोक्तनीत्या सम्बन्धनसंयोग एव साक्षादुपयोगी, इतरेषां तु तदुपकारितया तेषामपि कथञ्चित्त्याज्यतया च शिष्यमतिव्युत्पादनाय चोपन्यास इति भावनीयम्। उक्तः संयोगः, तदभिधानाञ्च व्याख्यातं प्रथमसूत्रम्॥१॥सम्प्रति यदुक्तं 'विनयं प्रादुष्करिष्यामी'ति, तत्र विनयो धर्मः, स च धर्मिणः कथञ्चिदभिन्न इति धर्मिद्वारेण तत्स्वरूपमाह
आणानिदेसयरे, गुरुणमुववायकारए । इंगियागारसंपन्ने, से विणीएत्ति वुच्चइ ॥२॥ (सूत्रम् )
व्याख्या-आङिति खखभावावस्थानात्मिकया मर्यादयाऽभिव्याप्त्या वा ज्ञायन्तेऽर्था अनयेत्याज्ञा-भगवदभि|हितागमरूपा तस्या निर्देश-उत्सर्गापवादाभ्यां प्रतिपादनमाज्ञानिर्देशः, इदमित्थं विधेयमिदमित्थं वेत्येवमात्मकः तत्करणशीलस्तदनुलोमानुष्ठानो वा आज्ञानिर्देशकरः, यद्वाऽऽज्ञा-सौम्य ! इदं कुरु इदं च मा कारिति गुरुवचनमेव, तस्या निर्देश-इदमित्थमेव करोमि इति निश्चयाभिधानं तत्करः, आज्ञानिर्देशेन वा तरति भवाम्भोघिमित्याज्ञानिर्देशतर इत्यादयोऽनन्तगमपर्यायत्वाद्भगवद्वचनस्य व्याख्याभेदाः सम्भवन्तोऽपि मन्दमतीनां व्यामोहहेतुतया बालाबलादिबोधोत्पादनार्थत्वाचास्य प्रयासस्य न प्रतिसूत्रं प्रदर्शयिष्यन्ते, तथा 'गुरूणां' गौरवार्हाणामा
Jain Education International
For Personal & Private Use Only
www.janelibrary.org