SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् उत्तराध्य. ६ विधाय निर्णाश्येतियावत्, किमित्याह-विप्रमुक्ताः, श्रुतत्वादनन्तरोक्तसम्बन्धनसंयोगादेव, के ते ?-'साधवः' अनगाराः, येनैवं तेन किमित्याह-मुक्ताः 'ततः' संसारात् , तद्धेतुकत्वात्तस्य, 'तेन' हेतुना, अनेन च गाथापश्चाबृहद्वृत्तिः |र्धन सम्बन्धच्छेदनलक्षणेन प्रकारेण विप्रमुक्ता भवन्ति, तेषां च फलं मुक्तिरित्यर्थत उक्तं भवति । यच्च विप्रमुक्तस्येत्येक॥४३॥ त्वप्रक्रमेऽपि विप्रमुक्ता इतीह बहुवचनं तदेवंविधभिक्षोः पूज्यत्वख्यापनार्थमिति गाथार्थः ॥ ६२ ॥ एवं 'संजोगे |निक्खेवो' इत्यादिमूलगाथोपक्षिप्तसंयुक्तकसंयोगेतरेतरसंयोगभेदतो द्विविधं द्रव्यसंयोगं निरूप्य तत्र संयुक्तकसंयोगं सचित्तादिभेदतस्त्रिविधम् इतरेतरसंयोगं तु परमाणुप्रदेशाभिप्रेतानभिप्रेताभिलापसम्बन्धनविधानतः पडिधमभिधाय सम्बन्धनसंयोग एव च साक्षात् कर्मसम्बन्धनिबन्धनतया संसारहेतुरिति तत्त्याज्यतां च सम्प्रति तत्प्रतिपादनत एवान्यदुक्तप्रायमिति मन्वानः क्षेत्रादिनिक्षेपमविशिष्टमतिदेष्टमाहसंबंधणसंजोगे खित्ताईणं विभास जा भणिया। खित्ताइस संजोगो सो चेव विभासियवो अ(उ) ॥३॥ व्याख्या-सम्बन्धनसंयोगे क्षेत्रादीनाम, आदिशब्दात् कालभावपरिग्रहः. विविधा-आदेशानादेशादिभेदादनेकभेदा भाषा विभाषा, या इति प्रस्तुतपरामर्शः, 'भणिता' अभिहिता. 'क्षेत्रादिप' क्षेत्रादिविषयः संयोगःप्रथमद्वारतगाथासूचितः, स चैव विभाषितव्यः, 'तुः' पूरणे, संयोगत्वं चात्र विभाषाया वचनरूपत्वाद्वचनपर्यायाणां कथञ्चि द्वाच्यादभेदख्यापनार्थमुक्तं, ततोऽयमर्थः-सम्बन्धनसंयोगविषयक्षेत्रादिविभाषायां यत्संयोगखरूपमुक्तम्, इहापि ॥४३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy