________________
संयोगस्तु तथाऽन्यथा च, तत्र परमाणुसंयोगस्तथा प्रदेशादिसंयोगस्तु प्रायोऽन्यथेति युक्त एव तयोर्भेदः, एवं तर्हि परमाणुसंयोगस्य संयुक्तकसंयोगादभेदोऽस्तूभयोरपि एकस्कन्धताऽऽपन्नद्रव्यविषयत्वात् , अयमपि न दोषः, यतो निष्पाद्यमानविषय इतरेतरसंयोगः, परिमण्डलादिसंस्थितद्रव्यस्य तेनैव (वि)निष्पाद्यमानत्वात् , संयुक्तसंयोगस्तु प्रायो निष्पन्नद्रव्यविषयः, निष्पन्नं हि मूलादिरूपेण वृक्षादिद्रव्यं कन्दादिना युज्यते, इत्यस्त्यनयोर्विशेष इति गाथार्थः ॥ ६१॥ इत्थं सम्बन्धनसंयोगः खरूपत उक्तः, सम्प्रति तस्यैव फलतः प्ररूपणापूर्वकं विषमुक्तस्येति प्रकृतसूत्रपदं व्याख्यानयन् यथा ततो विप्रमुक्ता भवन्ति यच तेषां फलं तदाहसंबंधणसंजोगो संसाराओ अणुत्तरणवासो । तं छित्तु विप्पमुक्का माइपिइसुआइ ये हवंति ॥ ६२॥
व्याख्या-'सम्बन्धनसंयोगः' उक्तरूपः, संसरन्त्यस्मिन् कर्मवशवर्तिजन्तव इति संसारस्तस्मात् , न विद्यते उत्तरणं -पारगमनमस्मिन् सतीत्यनुत्तरणः, स चासौ वासश्च-अवस्थानमनुत्तरणवासः, अनुत्तरणवासहेतुत्वादायुघृतमित्यादिवदनुत्तरणवासः, अथवा 'अनुत्तरणवासो'त्ति आत्मनः पारतत्र्यहेतुतया पाशवत् पाशः, ततोऽनुत्तरणश्चासौ पाशश्च अनुत्तरणपाशः, उभयत्र च सापेक्षत्वेऽपि गमकत्वात् समासः, अनेन संसारावस्थितिः पारवश्यं वा सम्बन्धनसंयोगस्यार्थतः फलमुक्तं, 'तम्' एवंविधं सम्बन्धनसंयोगम् , अर्थादौदयिकभावविषयं मात्रादिविषयं च 'छित्त्वा' द्विधा । १ टीका-साहू मुक्का तओ तेणं ।
Join Education Interational
For Personal & Private Use Only
www.jainelibrary.org