SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ SAR भिरासेव्यत इति आचार्यः, 'अन्यत्रापी' तिवचनात् कर्तरि कर्मणि वा कृत्यप्रत्ययः, तथा शासितुं शक्यः शिष्यः पुनाति पितुराचारानुवर्तितयाऽऽत्मानमिति पुत्रः पाति-रक्षत्यपत्यमिति पिता स च जनयति-प्रादुर्भावयत्यपत्यमिति जननी सा है च भवति बाबसम्बन्धनसंयोगविषयत्वाद्वाह्यसम्बन्धनसंयोग इति वृद्धाः, इदं च सर्वत्र योज्यं, दोग्धि च केवलं जननी स्तन्यार्थमिति दुहिता, ततश्च "दुहितरि धो हिलोपश्च' इतिवचनादादेर्धत्वे हिलोपे च 'उदूत् सुपुष्पोत्सवोत्४ सुकदुहितृषु" इति वचनात् , उत ऊत्त्वे च धूया, सा च, चकारत्रयं पूरणे, भ्रियते-पोष्यते भत्रेति भार्या पाति-र-13 तक्षति तामिति पतिः स्त्यायते धातूनामनेकार्थत्वात् कठिनीभवत्यस्मिन् जलादीति शीतम् उपति-दहति जन्तु मिति उष्णं तमयति-खेदयति जनलोचनानीति तमः औणादिकोऽसन् , 'उज्ज' त्ति आर्षत्वादुद्द्योतयतीति उद्द्योतः पचादित्वादचु, छ्यति छिनत्ति वाऽऽतपमिति छाया, आ-समन्तात्तपति संतापयति जगदिति आतपः, चशब्दो राजभृत्याद्यनुक्ताशेषसम्बन्धिसमुच्चये, लक्षणानुपपत्तौ च सर्वत्र नैरुक्तो विधिः, सुपश्च यत्राश्रवणं तत्र प्राग्वलुक, इदमत्रैदम्पर्यम्-आचार्यः शिष्यादन्यत्वेन बाह्यः, ततो यस्तेन शिष्यस्य संयोगः-शिष्य इत्युक्तिरवश्यमाचार्यमाक्षिपति यस्यायं शिष्य इत्याक्षेप्याक्षेपकभावलक्षणः स बाह्येनेतिकृत्वा बाह्यसम्बन्धनसंयोगः, ततस्तद्विषय आचार्योऽप्युपचारात्तथोच्यते, एवं शिष्योऽप्याचार्यादन्यत्वेन बाह्यः, तेनाप्याचार्यस्य यः संयोगः-आचार्य इत्युक्ति१ कृत्यल्युटो बहुलम् इति ३-३-११३ सूत्रोक्तबहुलभावार्थभूतम्. EEEEEEE KARMERESEARCOM Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy