________________
उत्तराध्य.
बृहद्वृत्तिः ॥३८॥
*SHAARASSA
रवश्यं शिष्यमाक्षिपति यस्यायमाचार्य इत्याक्षेप्याक्षेपकभावरूपः सोऽपि बायेनेतिकृत्वा बाह्यसम्बन्धनसंयोगः, अध्ययनम् ततस्तद्विषयः शिष्योऽप्युपचारात् तथोच्यते, एवं पुत्रपित्रादिद्वयेष्वपि भावनीयं, सर्वत्र सामान्येन परस्पराक्षेप्याक्षे-18 पकभावः सम्बन्धः, विशेषनिरूपणायां त्वाचार्यशिष्यभार्यापतीनामुपकार्योपकारकभावः पितृपुत्रजननीदुहितृणां जन्यजनकभावः (ग्रं०१०००) शीतोष्णादीनां च विरोधः सम्बन्धः, अत एव च विशेषाद् द्रव्यसंयोगत्वेऽप्यस्य भेदेनोपादानमिति गाथार्थः ॥ ५७ ॥ सम्प्रति संयोगप्रक्रमेऽप्याचार्यशिष्यमूलत्वादनुयोगस्य तयोः खरूपमाहआयरिओ तारिसओ जारिसओ नवरि हुज सो चेव।आयरियस्सवि सीसो सरिसो सवेहिवि गुणेहिं ५८ ___ व्याख्या-आचार्यः 'तादृशः' तथाविधः, यादृशः क इत्याह-यादृशो 'नवर' मिति यदि परं भवेत् 'स चेव' त्ति चः पूरणे, स एव-आचार्य एव, किमुक्तं भवति ?-आचार्यस्थाचार्य एवान्यः सदृशो भवति, न पुनरनाचायः, आचार्यगुणानामन्यत्राविद्यमानत्वात् , न ह्याचार्यादन्यः पत्रिंशत्सङ्ख्यगणिगुणसमन्वित इहास्ति, तत्सम-|| न्वितत्वे त्वन्योऽपि तत्त्वत आचार्य एवेति। अथ क एते षटूत्रिंशद्गुणाः?, उच्यन्ते, प्रत्येकं चतुष्प्रकारा अष्टौ गणिसम्पदो द्वात्रिंशत् , तत्र चाचारादिचतुर्विधविनयमीलनात षटत्रिंशद्भवन्ति, उक्तं च-"अट्टविहा गणिसंपइ चउग्गुणा नवरि होति बत्तीसा। विणओ यच उब्भेओ छत्तीस गुणा हवंतेए ॥१॥" तत्राष्टी गणिसम्पद इमाः
१ अष्टविधा गणिसंपत् चतुर्गुणा नवरं भवन्ति द्वात्रिंशत् । विनयश्च चतुर्भेदः षटुिंशद्गुणा भवन्त्येते ॥ १॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org