________________
|मिति विशेषोऽपि मगधाद्यपेक्षया सामान्यमित्यादिरूपेण सर्वत्र सामान्यविशेषयोरनियतत्वख्यापनार्थ, भावे च भवति द्विविध इति भिन्नवाक्यताभिधानमनन्तरग्रन्थस्यैतद्विषयत्वख्यापनार्थमिति गाथार्थः ॥४७॥ अत्र क्षेत्रकालगतयोरादेशानादेशयोरल्पवक्तव्यत्वेन सम्प्रदायादपि सुज्ञानत्वात् तद्विषयः सम्बन्धनसंयोगोऽपि सुज्ञान एवेति मत्वा भावगतादेशानादेशविषयं तमभिधित्सुरुक्तहेतोरेव प्रथममनादेशविषयं भेदत आह
ओदइअ ओवसमिए खइए य तहा खओवसमिए य। परिणाम सन्निवाए छविहो होअणाएसो॥४८॥ ___ व्याख्या--तत्रोदयः-शुभानां तीर्थकरनामादिप्रकृतीनाम् अशुभानां च मिथ्यात्वादीनां विपाकतोऽनुभवनं तेन निर्वृत्तः औदयिकः, क्वचित्तु 'उदयिए' त्ति पठ्यते तत्र च पदावसानवर्तिन एकारस्य गुरुत्वेऽपि विकल्पतो लघुत्वानुज्ञानात् नात्र छन्दोभङ्गः, उक्तं हि-"ईहियारा बिंदुजुया एओ सुद्धा पयावसाणंमि। रहवंजणसंजोए परंमि लहुणो विभासाए ॥१॥" विपाकप्रदेशानुभवरूपतया द्विभेदस्याप्युदयस्य विष्कम्भणमुपशमस्तेन निवृत्त औपशमिकः, क्षयः-कर्मणामत्यन्तोच्छेदः तेन निवृत्तः क्षायिकः स च, तथा क्षयश्च-अभाव उदयावस्थस्य उपशमश्च-विष्क|म्भितोदयत्वं तदन्यस्य क्षयोपशमौ ताभ्यां निवृत्तः क्षायोपशमिकः स च, परीति-सर्वप्रकारं नमनं-जीवानामजीवानां | १ कचित्र प्राक् 'आदिवो आएसंमि बहुविहे सरिसनाणचरणगए। सामित्तपच्चयाइमि चेव किंचित्तओ वुच्छं ॥शा" एषा गाथा दृश्यते, न च व्याख्याता सूचिता वेत्युपेक्षिता २ इहिकारौ बिन्दुयुक्तौ एओ (एकारौकारौ) शुद्धौ पदावसाने। रहव्यञ्जनसंयोगे परस्मिन् लघवो विभाषया ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org