________________
उत्तराध्य.
बृहद्वृत्तिः
॥ ३३ ॥
|च जीवत्वादिखरूपानुभवनं प्रति प्रह्वीभवनं परिणामः, 'एदोद्रलोपा विसर्जनीयस्ये' ति विसर्ग लोपः, 'स' मिति संहतरूपतया नीति-नियतं पतनं गमनं, कोऽर्थः ?- एकत्र वर्तनं, सन्निपातः - औदयिकादिभावानामेव व्यादिसंयोगः, 'चः' सर्वत्र समुच्चये, इत्थं षड् विधा :- प्रकारा अस्येति षडिधो भवति 'अनादेशः ' सामान्यं, सामान्यत्वं चौदयि| कादीनां गतिकषायादिविशेषेष्वनुवृत्तिधर्मकत्वाद्, अनादेशस्य षड्विधत्वे तद्विषयः संयोगोऽपि षड्विध इत्युक्तं भवति इति गाथार्थः ॥ ४८ ॥ इदानीमादेशविषयं तमेव भेदत आह
आएसो पुण दुविहो अप्पिअववहारऽणप्पिओ चेव । इक्किको पुण तिविहो अत्ताण परे तदुभए य ॥ ४९ ॥ व्याख्या- 'आदेशः' अभिहितरूपः, पुनःशब्दो विशेषणे, 'द्विविधः' द्विभेदः, कथमित्याह – 'अप्पियववहारणप्पिओ चेव' त्ति व्यवहारशब्दोऽत्र डमरुकमणिन्यायेनोभयत्र सम्बध्यते, ततश्चार्पित इति व्यवहारो यस्मिन् | सोऽयमर्पितव्यवहारः, मयूरव्यंसकादित्वात् समासः, अनर्पितव्यवहारस्तु तद्विपरीतः, तत्रार्पितो नाम क्षायिकादिर्भावः खाधारे भाववति ज्ञाताऽयमित्यादिरूपेण ज्ञानमस्येत्यादिरूपेण वा वचनव्यापारेण वक्त्रा स्थापितः, अन| र्पितस्तु वस्तुनः साधारणत्वेऽपि निराधार एव प्ररूपणार्थे विवक्षितो यथा - सर्वभावप्रधानः क्षायिको भावः । अनयोरपि भेदानाह - 'एकैकः' इत्यर्पितव्यवहारः अनर्पितव्यवहारश्च पुनस्त्रिविधः, कथमित्याह - 'अत्ताण' त्ति आर्षत्वादात्मनि परस्मिन् तयोरात्मपरयोरुभयं तस्मिंश्च विषयसप्तम्यश्चैताः, ततो विषयत्रैविध्येनानयोस्त्रैविध्यम्,
Jain Education International
די
For Personal & Private Use Only
अध्ययनम्
१
॥ ३३ ॥
www.jainelibrary.org