________________
SAGARLSSACRECE
अन्यथा तथाविधशब्दश्रुतावनुभवसिद्धश्रोत्रान्तःपीडाया असम्भवादिति गाथार्थः ॥४५॥ उक्तोऽभिलापविषय द इतरेतरसंयोगः, सम्प्रति सम्बन्धनसंयोगरूपस्य तस्यावसरः, सोऽपि द्रव्यक्षेत्रकालभावभेदतश्चतुर्धा, तत्र द्रव्यसं
योगसम्बन्धनमाह| संबंधणसंजोगो सचित्ताचित्तमीसओ चेव । दुपयाइ हिरण्णाई रहतुरगाई अ बहुहा उ ॥ ४६॥
व्याख्या-सम्बध्यते प्रायो ममेदमित्यादिबुद्धितोऽनेनास्मिन् वाऽऽत्माऽष्टविधेन कर्मणा सहेति सम्बन्धनः स चासौ संयोगश्च सम्बन्धनसंयोगः, 'सचित्ताचित्तमीसओ चेव' त्ति प्राग्वत् सुपो लुकि सचित्तोऽचित्तो मिश्रकः, चः समुच्चये, एवः भेदावधारणे, यथाक्रममुदाहरणान्याह द्विपदेत्यादिना, सचित्ते द्विपदादिः, आदिशब्दाचतुष्पदापदपरिग्रहः, तत्र च द्विपदसंयोगो यथा-पुत्री, चतुष्पदसंयोगो यथा-गोमान् , अपदसंयोगो यथा-पनसवान् । है अचित्ते हिरण्यादिः, आदिशब्दान्मणिमुक्तादिग्रहः, स च हिरण्यवानित्यादि । मिश्रे रथयोजितस्तुरगः मध्यपदलोपे
रथतुरगस्तदादिः, आदिशब्दाच्छकटवृषभादिपरिग्रहः, स च रथिक इत्यादि, 'चः' समुच्चये, 'बहुधा तु' इति बहुप्रकार एव, तुशब्दस्यैवकारार्थत्वात् , इह च सचित्तविषयत्वात् सम्बन्धनसंयोगोऽपि सचित्त इत्यादि सर्वत्र भावनीयम् । आह-यदि सचित्तादिविषयत्वादसौ सचित्तादिरिति व्यपदिश्यते, एवं सत्यात्मन एवासौ तैः सह, तत उभयनिष्ठत्वात्तेनापि किं न व्यपदिश्यते ?, उच्यते, यवाङ्करादिवदसाधारणेनैव व्यपदेशः, आत्मनश्च सर्वैरप्यमीभि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org