________________
अध्ययनम्
उत्तराध्य.
औदयिकादिवचसो मनुष्यत्वादिपर्यायण, चशब्दोऽत्र पूर्वत्र च समुच्चये । द्वितीयमाह-द्विकस्य संयोगो द्विकसं- बृहद्वृत्तिः
योगः स आदिर्यस्य त्रिकसंयोगादेः सोऽयं द्विकसंयोगादिकः, इहामिलापसंयोगस्य त्रिविधत्वात् तत्र चाद्यस्याम
न्तरमेवोक्तत्वात् तृतीयस्य चाभिधास्यमानत्वाद् अर्थाद् द्विकग्रहणेनाभिलाप्यद्वयमेव गृह्यते, तत्र विकसंयोगो यथा॥३१॥
स च स च तौ, त्रिकसंयोगो यथा-सच तौ च ते, अत्र तौ च ते चेत्युक्ते स च स च तथा सच तो चेत्यनुक्तादवप्येकत्राभिलाप्यार्थद्वयमन्यत्र चामिलाप्यार्थत्रयं सह प्रतीयते, अभिलापसंयोगत्वं चास्याभिलापद्वारकत्वादभि
लाप्येन सह प्रतीतेः । तृतीयमाह-अक्षरे च अक्षराणि च अक्षराणि तेषां संयोगः अक्षरसंयोगः स आदिर्यस्योदात्ताधशेषवर्णधर्मसंयोगस्य सोऽयमक्षरसंयोगादिकः, मकारोऽलाक्षणिकः, तत्राक्षरयोः संयोगो यथा-क इति, अक्षराणां संयोगः यथा श्रीरिति, उदात्तादिवर्णधर्मसंयोगास्तु खधिया भावनीयाः, अस्याप्यभिलापसंयोगत्वं वर्णादीनां कथञ्चिदभिलापानन्यत्वेन तदात्मकत्वात् , यद्वाऽक्षरसंयोग इत्यनेन सर्वोऽपि व्यञ्जनसंयोग उक्तः, आदिशब्देन त्वर्थसंयोगः, एतद्विशेषणं च द्विकसंयोगादिरिति योजनीयम्, अन्यत् प्राग्वत्, द्रव्यसंयोगत्वं चास्याभिलापस्य द्रव्यत्वात् , द्रव्यत्वं चास्य स्पर्शवत्त्वेन गुणाश्रयत्वात् , वक्ष्यति हि-"गुणाणमासओदवं" ति, न च स्पर्शवत्त्वमसिद्धं, प्रतिघातजनकत्वात् , तथाहि-यत् प्रतिघातजनकं तत्स्पर्शवत् दृष्टं, यथा लोष्टादि, प्रतिघातजनकश्च शब्दः, १ गुणानामाश्रयो द्रव्यमिति
॥३१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org