SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ वा मनोऽनुकूलतया प्रतिभासमानाः, एतेनैतदप्याह-यथत एव देशकालावस्थादिवशतो विचित्राभिसन्धितया जन्तूनां मनसोऽननुलोमाः सन्तोऽनभिप्रेतोऽर्थः । इत्थं व्याख्यानतो विशेषप्रतिपत्तिमाश्रित्येन्द्रियापेक्षया मनोऽपेक्षया च भेदेनाभिप्रेतोऽनभिप्रेतश्चार्थो व्याख्यातः, अथवाऽनन्तरगाथापश्चार्द्धनाविशेषेणेन्द्रियाणां मनसश्चानुकूलोऽभिप्रेतोऽर्थः इतरस्त्वनभिप्रेत उक्तः, एतद्वाथयाऽपि स एव विशेषतो दर्शित इति व्याख्येयम् , अत्र च सर्वा इति सर्वप्रकारा अनुलोमा इति चेन्द्रियमनसामनुकूलाः, शेषं प्राग्वत् । उपेक्षणीयस्य विहानभिधानं नयस्य कस्यचिन्मतेनानभिप्रेत एव तस्यान्तर्भावादिति गाथार्थः ॥४४॥ उक्तोऽभिप्रेतानभिप्रेतभेदरूप इतरेतरसंयोगः, साम्प्रतममुमेवामिलापविषयमाह|| अभिलावे संजोगो दवे खित्ते अ कालभावे अ । दुगसंजोगाईओ अक्खरसंजोगमाईओ ॥ ४५ ॥ ___ व्याख्या-'अभिलापः' उक्तखरूपः, तद्विषयः 'संयोगः' प्रक्रमादभिलापेतरेतरसंयोगः, अयं च त्रिधा सम्भवति, तत्रैकोऽभिलापस्याभिलाप्येन द्वितीयोऽभिलाप्यस्याभिलाप्यान्तरेण तृतीयो वर्णस्य वर्णान्तरेण । तत्राद्योऽभिलाप्यस्य द्रव्यादिभेदेन चतुर्विधत्वात् 'द्रव्ये' इति द्रव्यविषयः, स चार्थाद् घटादिशब्दस्य पृथुबुध्नोदरांद्याकारपरिणतद्रव्येण वाच्यवाचकभावलक्षणः सम्बन्धः, एवं 'क्षेत्रे च' क्षेत्रविषयः, आकाशध्वनेरवगाहदानलक्षणक्षेत्रेण 'कालभावे' इति समाहारद्वन्द्वः, ततः 'काले' कालविषयः समयादिश्रुतेर्वर्तनादिव्यङ्गयेन कालपदार्थेन, 'भावे च' भावविषय Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy