________________
उत्तराध्य. बृहद्वृत्तिः ॥३०॥
तुतयाऽनुकूलश्रव्यकाकलीगीतादिरभिप्रेतः, अनभिप्रेतश्च प्रतिलोम उक्तविपरीतकाकखरादिरिति गाथार्थः॥४३॥ अध्ययनम् इह गाथापश्चार्द्धन मनोनिरपेक्षप्रवृत्त्यभावेऽपीन्द्रियाणां प्राधान्यमाश्रित्य तदपेक्षयाऽभिप्रेतोऽनभिप्रेतश्चार्थ उक्तः, सम्प्रति मनोऽपेक्षया तमेवाहसव्वा ओसंहजुत्ती गंधजुत्ती य भोयणविही य। रागविहि गीयवाइयविही अभिप्पेयमणुलोमो॥४॥ - व्याख्या-'सर्वाः' समस्ताः, कोऽर्थः ?-इन्द्रियाणामनुकूलाः प्रतिकूलाश्च, अस्य चौषधयुक्त्यादिभिः प्रत्येक | सम्बन्धः, ततश्च औषधादीनाम्-अगुरुकुङ्कमादीनां सजिकाराजिकादीनां च युक्तयो-योजनानि समविषमविभागनीतयो वा औषधयुक्तयः, गन्धानां-गन्धद्रव्याणां श्रीखण्डादीनां ल्हसणादीनां च युक्तयः गन्धयुक्तयः ताश्च, भोजनस्य । -अन्नस्य विधयः-शाल्योदनादयः कोद्रवभक्तादयश्च भेदाः भोजनविधयः ते च, 'रागविहिगीयवाइयविहि' त्ति सूत्रत्वाद्वचनव्यत्यये रागविधयश्च गीतवादित्रविधयश्च रागविधिगीतवादित्रविधयः, तत्र रजनं रागः-कुसुम्भादिना वर्णान्तरापादनं तद्विधयः-स्निग्धत्वादयो रूक्षत्वादयश्च गीतवादित्रविधय इति, अत्र विधिशब्दस्योभयत्र योगात्, गीत-गानं तद्विधयः-कोकिलारुतानुकारित्वादयः काकखरानुविधायित्वादयश्च, वादित्रम्-आतोद्यम्, इह ॥३०॥ चोपचारात्तद्ध्वनिः तद्विधयो-मृदङ्गादिखनाः केवलकरटिकादिखनाश्च, चशब्दो नृत्तादिविधिसमुच्चयार्थः, एते किमित्याह-'अभिप्पेयं' ति अभिप्रेतार्था उच्यन्ते, कीदृशाः सन्त इत्याह-अनुलोमाः, कोऽर्थः शुभा अशुभा
dan Education International
For Personal & Private Use Only
www.jainelibrary.org