________________
प्रदेशसंयोगः, उच्यते इति शेषः, अस्यैव विभागमाह-'त्रयाणां पुनः' पुनःशब्दस्य विशेषद्योतकत्वात् धर्माधर्माकाशप्रदेशानां धर्मादिभिरेव त्रिभिस्तेषामेव देशैः प्रदेशान्तरैश्च प्रकृतत्वादितरेतरसंयोगः 'अनादिः' आदिविकलः सदा संयुक्तत्वादेषां, 'सादिकः' आदियुक्तो भवति 'द्वयोः' पारिशेष्याज्जीवप्रदेशपुद्गलप्रदेशयोः, तथाहि-संयुज्यन्ते वियुज्यन्ते संसारिजीवप्रदेशाः कर्मपुद्गलप्रदेशाश्च परस्परं धर्मादिप्रदेशैश्च सह, तुशब्दो विशेष द्योतयति, स चायं-जीवप्रदेशानां धर्मादित्रयदेशप्रदेशापेक्षया पुद्गलस्कन्धाद्यपेक्षया च सादिसंयोगः,धर्मादिस्कन्धत्रयापेक्षयात्वनादिः, पुद्गलप्रदेशानामपि धर्मादिस्कन्धत्रयापेक्षयाऽनादिः, शेषापेक्षया तु सादिः । इह च धर्मादिस्कन्धानां तद्देशानां च यः परस्परं संयोगः स न प्रदेशसंयोगमन्तरेणेति तदभिधानत एवोक्तो मन्तव्यः, अप्रदेशस्य तु परमाणोधर्मादिभिः संयोग उक्तानुसारतः सुज्ञान एव इति नोक्त इति गाथार्थः ॥४२॥ उक्त प्रदेशानामितरेतरसंयोगः, सम्प्रत्यभिप्रेतानभिप्रेतभेदरूपं तमेवाहअभिपेयमणभिपेओ पंचसु विसएसु होइ नायवो।अणुलोमोऽभिप्पेओ अणभिप्पेओअपडिलोमो ४३/2 | व्याख्या-'अभिपेय' त्ति अभिप्रेतः 'अनभिप्पेओ' त्ति चस्य गम्यमानत्वादनभिप्रेतश्च, प्रक्रमादितरेतरसंयोगः, किमित्याह-'पञ्चसु' विषयेषु शब्दादिपञ्चकगोचरे, अर्थादिन्द्रियमनसां तद्ब्रहणप्रवृत्तौ ग्राह्यग्राहकभावः, स चाभिप्रेतार्थविषयोऽभिप्रेतः अनभिप्रेतार्थविषयस्त्वनभिप्रेतः भवति ज्ञातव्यः, आह-अस्त्वेवाभिप्रेतानभिप्रेतार्थविषयत्वेनाभिप्रेतः अनभिप्रेतश्चेतरेतरसंयोगः, अभिप्रेतानभिप्रेताओं तु काविति, अत्रोच्यते, 'अनुलोम' इन्द्रियाणां प्रमोदहे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org