________________
उत्तराध्य.
अध्ययनम्
बृहद्वृत्तिः
॥ २७॥
व्याख्या-लिङ्गं व्यभिचार्यपी' ति प्राकृतलक्षणात् सर्वत्र लिङ्गव्यत्ययः, ततः परिमण्डलं, प्रक्रमात् संस्थान-2 | मेवमुत्तरत्रापि, तच्च बहिर्वृत्ततावस्थितप्रदेशजनितमन्तःशुषिरं, यथा वलकस्य, चशब्द उत्तरभेदापेक्षया समुच्चये, वृत्तं ४ तदेवान्तःशुषिरविरहितं यथा कुलालचक्रस्य, व्यत्रं-त्रिकोणं, यथा शृङ्गाटकस्य, चतुरस्त्रं-चतुष्कोणं, यथा कुम्भिकायाः, आयतं-दीर्घ, यथा दण्डस्य, चः पूर्वभेदापेक्षया समुच्चये 'एव' अवधारणे, तत इयंत एव संस्थानभेदाः, 'घणपयर'त्ति घनं च प्रतरं च घनप्रतरं, प्राकृतत्वाद्विन्दुलोपः, सर्वत्र च प्रतरपूर्वक एव घनः प्ररूप्यते, इहापि तथैवोपदर्शयिष्यते, ततः प्रतरघन इति निर्देशः प्राप्तः, अल्पाक्ष(चूत)रत्वात्तु घनशब्दस्य पूर्वनिपातः, ततश्चैकैकं परिमण्डलादि प्रतरं घनं च, भवतीति गम्यते, तथा प्रथमम्-आद्यं वर्जयति-त्यजतीति प्रथमवर्ज-परिमण्डलरहितं वृत्तादिसंस्थानचतुष्कमित्यर्थः 'ओयपएसे य'त्ति ओजःप्रदेशं च-विषमसङ्ख्यपरमाणुक 'जुम्मे य' त्ति प्रक्रमाद् युग्मप्रदेशं च, उभयत्र चः समुच्चये । इह च घनप्रतरभेदमेव वृत्तादीत्थं भिद्यते, ततः प्रतरवृत्तमोजःप्रदेशं युग्मप्रदेशं च, तथा| घनवृत्तमोजःप्रदेशं युग्मप्रदेशं च, एवं व्यस्त्रादिष्वपि चतुर्विधं भावनीयं, परिमण्डलं वर्जनीयं च, समसङ्ख्याणुष्वेव | तस्य सम्भवेनैवंविधभेदासम्भवात् , तथा च द्विविधमेव परिमण्डलमिति गाथार्थः ॥ ३८ ॥ इह च परिमण्डलादि प्रत्येकं जघन्यमुत्कृष्टं च, तत्रोत्कृष्टं सर्वमनन्ताणुनिष्पन्नमसङ्ख्यप्रदेशावगाढं चेत्येकरूपतयाऽनुक्तमपि सम्प्रदायाज्ज्ञातुं शक्यमिति तदुपेक्ष्य जघन्यं तु प्रतिभेदमन्यान्यरूपतया न तथेति तदुपदर्शनार्थमाह
RAKASHASTRA
॥२७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org