________________
| निद्धस्स होइ दचस्स । लुक्ख बिउणाहिएण य लुक्खस्स समागमं पप्प ॥३॥” स्निग्धरूक्षपरस्परबन्धविचारणायां तु समगुणयोर्विषमगुणयोर्वा जघन्यवर्जयोवन्धपरिणविरिति विशेषः । तथा चाह-"बझंति णिद्धलुक्खा विसमगुणा अहव समगुणा जेऽवि । वजित्तु जहन्नगुणे बझंती पोग्गला एवं ॥१॥” इत्यादि, येन विशेषेण संस्थानात् स्कन्धस्य भेदेनोपादानं तमाविष्कर्तुमाह-'तं संठाणंति' प्राकृतत्वादेवं पाठः, तस्य-स्कन्धस्य संस्थानम्-आकारस्तत्संस्थानम् , अनेन-हृदि विवर्तमानतया प्रत्यक्षेण परिमण्डलादिनाऽनन्तरोक्तप्रकारेणेत्थमित्थं तिष्ठति इत्थंस्थं, न तथा अनित्थंस्थम्, अनेन नियतपरिमण्डलाद्यन्यतराकारं संस्थानं शेषोऽनियताऽऽकारस्तु स्कन्ध इत्यनयोर्विशेष इत्युक्तं भवति । आह-स्कन्धानामपि परस्परं बन्धोऽस्ति, यदुक्तम्-“एमेव य खंधाणं दुपएसाईण बंधपरिणामो"त्ति अतः किं न तेषामपीतरेतरसंयोग इहोक्तः, उच्यते, उक्त एव, तेषां प्रदेश
सद्भावात् , प्रदेशानां च 'इयरेतरसंजोगो परमाणूणं तहा पएसाणं' इत्यनेन तदभिधानादिति गाथार्थः ॥ ३७॥ है संस्थानभेदानाह। परिमंडले य वट्टे तंसे चउरंसमायए चेव । घणपयर पढमवज्जं ओयपएसे य जुम्मे य ॥ ३८॥
१ बध्येते स्निग्धरूक्षौ विषमगुणौ अथवा समगुणौ यावपि । वर्जयित्वा जघन्यगुणौ बध्यन्ते पुद्गला एवम् ॥ १॥ २ एवमेव च स्कन्धानां द्विप्रदेशादीनां बन्धपरिणामः ।
HAKA5
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org