SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् उत्तराध्य. स्निग्धश्चतुर्गुणस्निग्धेन चतुर्गुणस्निग्धः षड्गुणस्निग्धेनेत्यादि, एवमेकगुणरूक्षस्त्रिगुणरूक्षेण त्रिगुणरूक्षः पञ्चगुणरूक्षे णेत्यादि, तथा द्विगुणरूक्षश्चतुर्गुणरूक्षेण चतुर्गुणरूक्षः षड्गुणरूक्षेणेत्यादि, एवं द्विगुणाधिकसम्बन्धो भावनीयः, न बृहद्वृत्तिः त्वेकगुणस्निग्ध एकगुणस्निग्धेन द्विगुणस्निग्धेन वा सम्बध्यते द्विगुणस्निग्धो द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वा यावद॥२६॥ नन्तगुण स्निग्धोऽप्यनन्तगुणस्निग्धेन समगुणेनैकगुणाधिकेन वा, एवमेकगुणरूक्ष एकगुणरूक्षेण द्विगुणरूक्षेण वा हाद्विगुणरूक्षो द्विगुणरूक्षेण त्रिगुणरूक्षेण वा यावदनन्तगुणरूक्षोऽप्यनन्तगुणरूक्षेण समगुणेनैकगुणाधिकेन वेति, अन्ये त्याहुः-एकगुणादि स्वस्थानापेक्षया द्विगुणेन रूपाधिकेन सम्बध्यत इति, अयमत्र विशेषः खलुशब्देन सूच्यते, तथा चैककस्य स्वस्थानापेक्षया द्विगुणो द्विक एव स च रूपाधिकस्त्रिक एव इति त्रिगुणेनैवैकगुणस्य सम्बन्धः, तथा |द्विगुणस्य पञ्चगुणेन त्रिगुणस्य सप्तगुणेन चतुर्गुणस्य नवगुणेन पञ्चगुणस्यैकादशगुणेनेत्यादि, उक्तं च-"समनिद्धयाइ बंधो न होइ समलुक्खयावि य न होइ । वेमाइनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥१॥" तथा "दोह जहण्णगुणाणं निद्धाणं तह य लुक्खदवाणं । एगाहिएवि य गुणे ण होति बंधस्स परिणामो ॥२॥णिद्धबिउणाहिएणं बंधो १ समस्निग्धतया बन्धो न भवति समरूक्षतयाऽपि च न भवति । विमात्रस्निग्धरूक्षत्वेन बन्धस्तु स्कन्धयोः ॥ १॥ २ द्वयोर्जघ- न्यगुणयोः स्निग्धयोस्तथैव रूक्षद्रव्ययोः । एकाधिकेऽपि च गुणे न भवति बन्धस्य परिणामः ॥१॥ स्निग्धेन द्विगुणाधिकेन बन्धः स्निग्धस्य भवति द्रव्यस्य । रूक्षेण द्विगुणाधिकेन च रूक्षस्य समागमं प्राप्य ॥ २ ॥ RECENGABACK ॥२६॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy