________________
व्याख्या-द्वौ विधौ प्रकारावस्येति द्विविधः-विभेदः, कोऽसौ !-'परमाणूनाम्' इति परमाणुसम्बन्धी, प्रक्रमादितरेतरसंयोगो भवति, 'चः' पूरणे, कथं द्विविध इत्याह-'संठाणखंधतो'त्ति संतिष्ठतेऽनेन रूपेण पुद्गलात्मकं वस्त्विति संस्थानम्-आकारविशेषः ततस्तमाश्रित्य, 'स्कन्धतः स्कन्धमाश्रित्य, चः समुच्चये, 'एवः' भेदावधारणे। द्विविधस्यापि प्रत्येक भेदानाह-संस्थाने' संस्थानविषयः 'पञ्चविधः' पञ्चप्रकारः 'द्विविधः' द्विप्रकारः, पुनःशब्दो वाक्यान्तरोपन्यासे भवति 'स्कन्धेषु' स्कन्धविषय इति गाथार्थः ॥३६॥ इह च संस्थानस्कन्धभेदद्वारक एवायमितरेतरसंयोगभेद इति तदभिधानमुचितं, तत्र 'यथोद्देशं निर्देश' इति न्यायतः संस्थानभेदाभिधानप्रस्तावेऽप्यल्पवक्तव्यत्वात्
स्कन्धभेदं हेतुभेदद्वारेणाहTEI परमाणुपुग्गला खल्ल दुन्नि व बहुगा य संहता संता। निवत्तयंति खंधं तं संठाणं अणित्थंत्थं ॥३७॥
व्याख्या-परमाणुपुद्गलौ खलु द्वौ वा बहव एव बहुका:-त्रिप्रभृतयः, ते च परमाणुपुद्गलाः 'संहताः' एकपिण्डतामापन्नाः सन्तो 'निर्वर्तयन्ति' जनयन्ति, किमित्याह-'स्कन्धं' घणुकादिकम् , अनेन च द्विपरमाणुजन्यतया बहुपर-18 माणुजन्यत्वेन च स्कन्धस्य द्विभेदत्वमुक्तं, खलुशब्दोऽत्र विशेष द्योतयति, स चायम्-इह रूक्षः स्निग्धो वा एकगुणः सम्बध्यमानो द्विगुणाधिकेनैव खखरूपापेक्षया सम्बध्यते, न तु समगुणेनैकगुणाधिकेन वा, किमुक्तं भवति ? एकगुणस्निग्धस्त्रिगुणस्निग्धेन सम्बध्यते त्रिगुणस्निग्धः पञ्चगुणस्निग्धेन पञ्चगुणस्निग्धः सप्तगुणस्निग्धेनेत्यादि, तथा द्विगुण
Jain Education Inter nal
For Personal & Private Use Only
www.janelibrary.org