________________
उत्तराध्य.
अध्ययनम्
बृहद्वृत्तिः
AGRICSGARHI
ततोऽस्य कर्मप्रदेशान्तरैः संयोगो मिश्रसंयुक्तकद्रव्यसंयोग उच्यते, इह च जीवकर्मणोरनादिसंयोगस्य धातुकनकादिसंयोगदृष्टान्तद्वारेणाभिधानं तद्वदेवानादित्वेऽप्युपायतो जीवकर्मसंयोगस्थामावख्यापनार्थम् , अन्यथा मुक्त्यनुष्ठानवैफल्यापत्तेरिति भावनीयमिति गाथार्थः ॥ ३४ ॥ उक्तः संयुक्तकसंयोगः, इतरेतरसंयोगमाहइयरेयरसंजोगो परमाणूणं तहा पएसाणं । अभिपेयमणभिपेओ अभिलावो चेव संबंधो ॥ ३५॥ । व्याख्या-इतरेतरस्य-परस्परस्य संयोगो-घटना इतरेतरसंयोगः 'परमाणूनाम्' उक्तरूपाणां, तथा प्रकर्षण
सूक्ष्मातिशयलक्षणेन दिश्यन्ते-कथ्यन्त इति प्रदेशाः-धर्मास्तिकायादिसम्बन्धिनो निर्विभागा भागास्तेषाम् , | 'अभिपेयं ति प्राकृतत्वादभिप्रेतः, इतरेतरसंयोग इति योज्यते, एवमुत्तरत्रापि, अभिप्रेतत्वं चास्याभिप्रेतविषयत्वाद्, एतद्विपरीतोऽनभिप्रेतः, अभिलप्यते-आभिमुख्येन व्यक्तमुच्यतेऽनेनार्थ इत्यभिलापो-वाचकः शब्दस्तद्विषयत्वात् | अभिलापः, चः समुच्चये, 'एवः' अवधारणे, सम्बन्धशब्दानन्तरं चैतौ योज्यौ, ततः सम्बन्धन-सम्बन्धः, स चैवं खखामित्वादिरनेकधा वक्ष्यमाणः, एतावद्भेद एवायमितरेतरसंयोग इति चावधारणस्वार्थ इति गाथासमासार्थः ॥ ३५॥ परमाणूनां संयोगमाहदुविहो परमाणूणं हवइ य संठाणखंधओ चेव । संठाणे पंचविहो दुविहो पुण होइ खंधेसुं ॥ ३६॥
॥२५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org