SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ भावो, घटे दृष्टं चतुष्टयम् ॥१॥ तत्रापि नाम नाकारमाकारो नाम नो विना। तौ विना नापि चान्योऽन्यमुत्तरादावपि संस्थितौ ॥२॥ मयूराण्डरसे यद्ववर्णा नीलादयः स्थिताः । सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घटे ॥३॥ इत्थं चैतत् , परस्परसव्यपेक्षितयैवाशेषनयानां सम्यग्नयत्वात् , इतरथा 'उत्पादव्ययध्रौव्ययुक्तं सदि'ति प्रत्यक्षादिप्रमा४ाणप्रतीतसल्लक्षणानुपपत्तेश्च । किञ्च-शब्दादपि घटादेर्नामादिभेदरूपेणैव घटाद्यर्थे बुद्धिपरिणामो जायते, इत्यतोऽपि नामादिचतूरूपतैव सर्वस्य वस्तुनः, उक्तं च-"नामादिभेदसइत्थबुद्धिपरिणामभावओ णिययं । जं वत्थु अस्थि लोए चउपजायं तयं सर्व ॥१॥" ततश्च-चतुष्काभ्यधिकस्येह, न्यासो योऽन्यस्य दयते । एतदन्तर्गतः सोऽपि, ज्ञातव्यो धीधनान्वितैः ॥ १॥ इत्यलं प्रसङ्गेन । सम्प्रति नियुक्तिरनुश्रि (त्रि) यते-तत्र नामस्थापने आगमतो नो8 आगमतश्च ज्ञशरीरभव्यशरीररूपश्च द्रव्यसंयोगः सुगम इति मन्वानो व्यतिरिक्तद्रव्यसंयोगमभिधातुमाह--'द्विविध स्त्वि'ति द्विविध एव, द्रव्येण द्रव्यस्य वा, 'स'मिति सङ्गतो योगः संयोगः, संयोगद्वैविध्यमेवाह-संयुक्तमेव संयुक्तकम्-अन्येन संश्लिष्टं, तस्य संयोगो-वस्त्वन्तरसम्बन्धः संयुक्तकसंयोगो ज्ञातव्यः, 'इतरेतर' इति इतरेतरसंयोगः, चः समुच्चये 'एवः' अवधारणे, इत्थमेव द्विविध एप संयोग इति गाथासमासार्थः ॥३०॥ विस्तरार्थ त्वभिधित्सुः हा यथोद्देश निर्देश' इति न्यायतः संयुक्तकसंयोगं भेदेनाह १ नामादिभेदशब्दार्थबुद्धिपरिणामभावतो नियतम् । यद्वस्त्वस्ति लोके चतुष्पर्यायं तकत् सर्वम् ॥२॥ dan Education inte For Personal & Private Use Only Tww.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy