________________
RECCCCCChe
तावपि वस्तुनि संशयादीनामन्यतमदेव स्यात् , तथा च पूज्या:-"संसय विवजओ वाऽणज्झवसाओऽवि वा जहिच्छाए । होजऽत्थे पडिवत्ती न वत्थुधम्मो जया णामं ॥१॥" स्थापनानय आह-स्थापनेत्याकारः, ततश्चप्रमाणमिदमेवार्थस्याऽऽकारमयतां प्रति । नामादि न विनाऽऽकारं, यतः केनापि वेद्यते ॥१॥ तथाहि-नाम्नोऽर्थान्तरेऽपि वर्तयितुं शक्यत्वान्न तदुल्लेखेऽप्याकारावभासमन्तरेण नियतनीलाद्यर्थग्रहणमित्याकारग्रहण एव ग्रहात् सर्वस्य सिद्धमाकारमयत्वं, ततो ज्ञानज्ञेयाभिधानाभिधेयादिसकलमाकारारूषितमेव संव्यवहारावतारि, तद्विकलस्य खपुष्पस्येवासत्त्वात् , उक्तं च पूज्यैः-"आंगारो चिय मइसद्दवत्थुकिरियाफलाभिहाणाई। आगारमयं सर्व जमणागारं तयं नत्थि ॥१॥ण पराणुमयं वत्थु आगाराभावओ खपुष्पं व । उवलंभववहाराभावाओ णाणगारं च ॥२॥” द्रव्यनय आह-यथा नामादि नाकारं, विना संवेद्यते तथा । नाऽऽकारोऽपि विना द्रव्यं, सर्व द्रव्यात्मकं ततः॥१॥ तथाहि-द्रव्यमेव मृदादिनिखिलस्थासकोशकुशूलकुटकपालाद्याकारानुयायि वस्तु सत्, तस्यैव तत्तदाकारानुयायिनः सद्बोधविषयत्वात् , स्थासकोशाधाकाराणां तु मृद्रव्यातिरेकिणां कदाचिदनुपलम्भात् , तचोत्पादादिसकल
१ संशयो विपर्ययो वाऽनध्यवसायोऽपि वा यदृच्छया । भवेदर्थे प्रतिपत्तिर्न वस्तुधर्मो यदा नाम ॥१॥२ आकार एव मतिशब्दवस्तुक्रि-17 | याफलाभिधानानि । आकारमयं सर्व यदनाकारं तकत् नास्ति ॥ १॥ न परानुमतं वस्तु आकाराभावतः खपुष्पवत् । उपलम्भव्यवहारा| भावतो नानाकारं च ॥ २॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org