________________
प्रस्तुताध्ययनम् , इत्यनयोरुपायोपेयभावलक्षणः सम्बन्ध इति च दर्शितं भवति, ततो नाप्रस्तुतत्वं प्रतिज्ञानस्येति स्थितम् । सम्प्रति सूत्राऽऽलापकनिष्पन्ननिक्षेपस्य सूत्रस्पर्शिकनियुक्तेश्च प्रस्ताव इति मन्यमानः संयोग इत्याचं पदं स्पृशनिक्षेप्तुमाह नियुक्तिकृत्
संजोगे निक्खेवो छक्को दुविहो उ दवसंजोगे । संजुत्तगसंजोगो नायवियरेयरो चेव ॥३०॥ व्याख्या-'संयोग' इति संयोगविषयः 'निक्षेपः' न्यासः, षट् परिमाणमस्येति षट्कः प्राग्वत्कन् , एतदाश्च नामस्थापनाद्रव्यक्षेत्रकालभावाः प्रसिद्धत्वादुत्तरत्र व्याख्यानत उन्नीयमानत्वाच नोक्ताः, अत्र च-'संहितादिर्यतो व्याख्याविधिः सर्वत्र दृश्यते । नामादिविधिनाऽऽरधुं, न व्याख्या युज्यते ततः॥१॥ इत्याहुरविभाव्यैव, स्याद्वाद वादिनोऽपरे । यत्तदत्र निराकार्यमाचक्षाणेन तद्विधिम् ॥२॥ स्वादस्तीत्यादिको वादः, स्याद्वाद इति गीयते । नयौ न च विमुच्याय, द्रव्यपर्यायवादिनौ ॥३॥ अतश्चैतद्वयोपेतं, खं मतं समुदाहृतम् । साततत्त्वसंविद्भिः, स्याद्वादः परमेश्वरैः॥४॥ते हि तीर्थविधौ सर्वे, मातृकाख्यं पदत्रयम् । उत्पत्तिविगमनौव्यख्यापकं सम्प्रचक्षते ॥५॥ उत्पत्तिविगमावत्र, मतं पर्यायवादिनः। द्रव्यार्थिकस्य तु धौव्यं, मातृकाख्यपदत्रये ॥६॥ ततश्च-द्रव्यत्वमन्वयित्वेन, मृदो यद्वद् घटादिषु । तद्वदेवान्वयित्वेन, नामस्थापनयोरपि ॥ ७ ॥ अन्वयित्वं तु सर्वत्र, सङ्के
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org