________________
अध्ययनम्
उत्तराध्य. बृहद्वृत्तिः ॥२०॥
प्रक्रमेऽप्यनाचारवचनम् । अथवा एकमपीदं सूत्रमावृत्त्या ' श्वेतो धावती'तिवदर्थद्वयाभिधायकं, ततश्चायमन्योऽर्थः। -संयोगेन-कषायादिसम्पर्कात्मकेनाप्यविप्रमुक्तः-अपरित्यक्तः, संयोगाविप्रमुक्तस्तस्य, ऋणमिव कालान्तरक्लेशानुभवहेतुतया ऋणम्-अष्टप्रकारं कर्म तत् करोतीति, कोऽर्थः ?-तथा तथा गुरुवचनविपरीतप्रवृत्तिभिरुपचिनोतीति ऋणकारस्तस्य, 'भिक्षोः' कषायादिवशतो जीववीयविकलस्य पौरुषघ्नीमेव भिक्षां तथाविधफलनिरपेक्षतया भ्रमणशीलस्य 'विनयं प्रादुष्करिष्यामीति "प्राकाश्यसम्भव प्रादु"रिति वचनात् प्रादुःशब्दस्य सम्भवार्थस्यापि दर्शनादुत्पादयिष्यामि, सम्भवति हीदमध्ययनमधीयानानां गुरुकर्मणामपि प्रायो विनीताविनीतगुणदोषविभावनातो ज्ञानादिविनयपरिणतिः, अथवा विरुद्धो नयो विनयोऽसदाचार इत्यर्थः, तं प्रादुष्करिष्यामि-प्रकटयिष्यामि, कस्य ? -'भिक्षोः' उक्तन्यायेन भिक्षणशीलस्य, सम्यग-अविपरीतो योगः-समाधिः संयोगः, ततो विविधैः परीपहासहनगुरुनियोगासहिष्णुत्वालस्यादिभिः प्रकारैः प्रकर्षण मुक्तो विप्रमुक्तः तस्य, शेष प्राग्वत् । एवं चाविनयप्रतिपादनस्यापि प्रतिज्ञातत्वात् सर्व सुस्थम् । अपरस्त्वाह-प्रतिज्ञातमपि विनयमभिधित्सोरप्रस्तुतम् , इदमपि बालप्रजल्पितं, यतः शास्त्रारम्भेऽभिधेयाद्यवश्यमभिधेयम् , अन्यथा प्रेक्षावप्रवृत्त्यसम्भवात् , तत्रदर्शनात्मकं चैतत् प्रतिज्ञानं, तथाहिविनयं प्रादुष्करिष्यामीत्युक्ते विनयोऽस्याध्ययनस्याभिधेयः, तत्रादुष्करणं फलं, तथा चेदमुपेयम् , उपायश्चास्य
१ वैकत्र द्वयोः (२-२ ८५) इति भ्रमेढिकर्मकत्वादत्र द्वितीया.
॥२०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org