SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ SANEYLERS भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुध्या वक्तुस्त्वेकान्ततो भवति ॥१॥" 'मे' मम विनयं विनतं वा प्रादुष्करिष्यत इति प्रक्रमः । उक्तः पदार्थस्तदभिधानात् सामासिकपदान्तर्गतः पदविग्रहश्च ( उक्त । इति ), ततश्चालनावसरः, सा च सूत्रार्थगतदूषणात्मिका, “सुत्तगयमत्थविसयं व दूसणं चालणं मयं तस्स" इति वचनात् , तत्र सूत्रचालना-संयोगस्यै विप्रमुक्तक्रियां प्रति कर्तृत्वात् संयोगादिति कथं पञ्चमी ?, अर्थचालना च |'विनयं प्रादुष्करिष्यामी'ति प्रतिज्ञातम् , उत्तरत्र च 'आणाऽणिद्देसकरें' इत्यादिना 'खडयाहिं चवेडाहिं' इत्यादिना च विपर्ययप्रतिपादनमपि दृश्यते, इति कथं न प्रतिज्ञाक्षितिः ?, प्रत्यवस्थान-शब्दार्थन्यायतः परोपन्यस्तदोषपरिहाररूपं, यत आह- "सइत्यन्नायाओ परिहारो पचवत्थाणं" तत्र च यद्यपि संयोगेन विमुच्यमानो भिक्षुः कर्म तथापि कर्तृत्वेनात्र विवक्ष्यते, ततश्च तस्य तं विप्रमुञ्चतो विश्लेषोऽस्तीति विश्लेषक्रियायां संयोगस्य ध्रुवत्वेनापादानत्वान्याय्यैव पञ्चमी, अत एव विप्रमुक्त इत्यत्र कर्मकर्तुः कर्मवद्भावात् कर्मणि क्तोऽपि सिद्धो भवति इति न सूत्रदोषो, नाप्यर्थदोषः, यतो यद् यलक्षणं तत्तद्विपर्ययाभिधान एव तल्लक्षणमक्लेशेन ज्ञातुं शक्यमिति अत्र विनयाभिधानप्रतिज्ञानेऽप्यविनयाभिधानं, तथा च शय्यम्भवप्रणीताचारकथायामपि “वयछक्ककायछक्कमित्यादिनाऽऽचार १ सूत्रगतमर्थविषयं वा दूषणं चालनं मतं तस्य । २ संबन्धनसंयोगरूपं गुणमपेक्ष्येयं शङ्का, तस्य गुणत्वेन नाशात् स जहाति भिक्षुमिति निर्धारणात् । ३ शब्दार्थन्यायतः परिहारः प्रत्यवस्थानम् । ४ भिक्षोः । ५ गुणं संबन्धनसंयोगरूपं । ६ मातापित्रादेः संयोगिनः । jalt Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy