________________
अध्ययनम्
बृहद्वृत्तिः
उत्तराध्य. विशेष्यमाह-भिक्षो'रिति,अत्रच पचनपाचनादिव्यापारोपरमतःसाधुर्भिक्षते तद्धर्मा चेत्यर्थे "सनाशंसभिक्ष उ"रिति
(पा०३-२-१६८) ताच्छीलिक उप्रत्ययः, अस्य च वर्तमानाधिकारविहितत्वेऽपि 'सज्ञाप्रकारास्ताच्छीलिका'
इति भाष्यकारवचनाद्भिाशब्दस्त्रिकालविषयो यतिपर्यायः सिद्धो भवति, शेषविवक्षायां च षष्ठी, अथवा॥१९॥'अणगारस्सभिक्खुणो' त्ति अखेषु भिक्षुरखभिक्षुः-जात्याधनाजीवनादनात्मीकृतत्वेनानात्मीयानेव गृहिणोऽन्नादि
भिक्षत इतिकृत्वा, स च यतिरेव, ततोऽनगारश्चासावखभिक्षुश्च अनगाराखभिक्षुस्तस्य, किमित्याह-विशिष्टो विविधो वा नयो-नीतिर्विनयः-साधुजनासेवितः समाचारस्तं, विनमनं वा विनतं णीयं सेजं गई ठाणं' इत्याद्यागमात्, द्रव्यतो नीचैर्वृत्तिलक्षणं प्रवत्वं भावतश्च साध्वाचारं प्रति प्रवणत्वं 'प्रादुष्करिष्यामि' प्रकटयिष्यामि, कथमित्याहपूर्वस्य पश्चादनुपूर्वं तस्य भाव इत्यर्थे "गुणवचनब्राह्मणादिभ्यः" (पा. ५-१-१२९ ) कर्मणि चेति व्यञ् , तस्य च पित्करणसामर्थ्यात् स्त्रीत्वे "षिद् गौरादिभ्यश्थे"ति (पा०४-१-४१) ङीष्यानुपूर्वी क्रमः परिपाटीतियावत् तया, द्वितीया तु 'छन्दोवत् सूत्राणी'ति न्यायतः छान्दसत्वे 'सुपा सुपो भवन्तीति वचनात् तृतीयार्थे, 'शृणुत'| आकर्णयत श्रवणं प्रत्यवहिता भवत, यद्वा शृणु 'इहे ति जगति जिनमते वा, व्याख्याद्वयेऽपि शिष्याभिमुखीकरणमित्यर्थः । अनेन च पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म एवेति ख्यापितं भवति, तथा च वाचकः-"न 5 १ दुहादित्वाहिकर्मत्वेन गृहिणोऽन्नादेश्च कर्मत्वं । २ नीचैः शय्यां गतिं स्थानम् ॥ १ ॥ ३ यू स्याख्यौ नदी (१-४-३) सूत्रे भाष्ये ।
dalin Education International
For Personal & Private Use Only
www.jainelibrary.org