SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ तयैव भावनीय, पदार्थस्त्वयम्-अन्यसंयुक्तस्यासंयुक्तस्य वा सचित्तादिवस्तुनो द्रव्यादिना संयोजन-संयोगः, सच संयुक्तसंयोगादिभेदेनानेकधा वक्ष्यते, तस्मान्मात्रादिसंयोगरूपादौदयिकादिक्लिष्टतरभावसंयोगात्मकाच विविधैः-ज्ञ नभावनादिभिर्विचित्रैःप्रकारैःप्रकर्षण-परीषहोपसर्गादिसहिष्णुतालक्षणेन मुक्तो-भ्रष्टो विप्रमुक्तः, तस्य, 'अनगारस्ये'तिअविद्यमानमगारमस्येत्यनगार इति व्युत्पन्नोऽनगारशब्दो गृह्यते, यस्त्वव्युत्पन्नो रूढिशब्दो यतिवाचकः, यथोक्तम्| 'अनगारो मुनिौनी, साधुः प्रबजितो व्रती । श्रमणः क्षपणश्चैव, यतिश्चैकार्थवाचकाः॥१॥' इति, स इह न गृह्यते, भिक्षुशब्देनैव तदर्थस्य गतत्वात् , तत्र चागारं द्विधा-द्रव्यभावभेदात् , तत्र द्रव्यागारमगैः-द्रुमदृषदादिभिर्निवृत्तं, भावागारं पुनरगैः-विपाककालेऽपि जीवविपाकतया शरीरपुद्गलादिषु बहिःप्रवृत्तिरहितैरनन्तानुवन्ध्यादिभिनिवृत्तं कषायमोहनीयं, तत्र च द्रव्यागारपक्षे तन्निषेधे ततोऽनगारस्याविद्यमानगृहस्येत्यर्थः, भावागारपक्षे त्वल्पताभिधायी, ततः स्थितिप्रदेशानुभागतोऽत्यल्पकषायमोहनीयस्वेत्यर्थः, कषायमोहनीयं हि कर्म, न च कर्मणः स्थित्यादिभूयस्त्वे विरतिसङ्गमः, यत आगमः-“सत्तण्हं पयडीणं अभितरओ उ कोडिकोडीओ।काऊण सागराणं जइ लहइ चउण्हमनयरं ॥१॥” इत्यादि, क्लिष्टतरभावसंयोगमुक्तत्वेनैव चास्य गतत्वे पुनरभिधानं कषायमोहनीयस्यातिदुष्टताख्यापनार्थ, १ सप्तानामपि प्रकृतीनामभ्यन्तरतस्तु कोटीकोट्याः । कृत्वा सागरोपमाणां यदि लभते चतुर्णामन्यतरत॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy