________________
22%SAMACASSECONDS
रायणो उवणीतो सासितो य ॥ एवं पापकर्मणामभिलषणमपि सदोषमिति न विदधीतेति सूत्रार्थः ॥ ३॥ इह कृतानां कर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचित् खजनत एव तन्मुक्तिर्भविष्यति, अमुक्तौ वा विभज्यैवामी धनादिवद् भोक्ष्यन्त इति कश्चिन्मन्येत अत आह
संसारमावन्न परस्स अट्रा, साहारणं जंच करेति कम्मं ।
कम्मस्स ते तस्स उ वेयकाले, न बंधवा बंधवयं उर्वति ॥ ४॥(सूत्रम् ) व्याख्या-पाठान्तरेऽपि पापकर्मस्पृहणं सदोषमिति निषिद्धं, ततस्तत्रापि स्यादेतत्-यथेह सर्व साधारणं तथाऽमुष्मिन्नपि भविष्यत्यत आह–'संसार'सूत्रं, संसरणं-संसारः-तेषु तेषूचावचेषु पर्यटनं तम् आपन्न:-प्राप्तः, |'परस्य' आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः, 'अर्थात्' इति अर्थ-प्रयोजनमाश्रित्य 'साधारणं जं च'त्ति चस्य वाशब्दाथत्वाद् भिन्नक्रमत्वाच साधारणं वा यदात्मनोऽन्येषां चैतद् भविष्यतीत्यभिसन्धिपूर्वकं करोति' निवर्तयति भवान्, कर्महेतुत्वात् कर्म क्रियत इति वा कर्म-कृष्यादिकर्म तस्यैव कृष्यादेः 'ते' तव हे कृष्यादिकर्मकर्तः ! 'तस्य' पराथेय साधारणस्य वा, तुशब्दोऽपिशब्दार्थः, आस्तामात्मनिमित्तं कृतस्येत्यभिप्रायः, 'वेदनं' वेदो विपाकः
१ राज्ञ उपनीतः शिक्षा प्रापि तश्च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org