SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ तद्यथा-आलीढं प्रत्यालीढं वैशाख मण्डलं समपदं च, तत्रालीढं दक्षिणं पादमग्रतः कृत्वा वामपादं पृष्ठतः सारयति, अन्तरं द्वयोरपि पादयोः पञ्च पदानि, एतद्विपरीतं तु प्रत्यालीढं, वैशाख पुनः पाणी अभ्यन्तरतः कृत्वा समश्रेण्या व्यवस्थापयति, अग्रिमतलौ बहिर्भूतौ कार्यों, मण्डलं द्वावपि पादौ दक्षिणवामतोऽवसायं ऊरू आकुञ्चति, यथा मण्डलं भवति, अन्तरं चत्वारि पादानि, समपदं पुनः स्थानं द्वावपि पादौ समौ नैरन्तर्येण स्थापयति, एतानि पञ्च स्थानान्यबद्धानि, शयनकरणं च षष्ठमिति गाथाक्षरार्थः ॥ २०३ ॥ उक्तं श्रुतकरणमधुना नोश्रुतकरणमाहनोसुयकरणं दुविहं गुणकरणं तह य जुजणाकरणं । गुण तवसंजमजोगा जुंजण मणवायकाए य २०४ व्याख्या-इह च नोशब्दस्य सर्वनिषेधाभिधायित्वात श्रुतकरणं यन्न भवति तन्नोश्रुतकरणं, तच द्वधा-गणकरणं 'तथा च' तेनैव नोश्रुतत्वलक्षणेन प्रकारेण योजनाकरणं च, एतत्खरूपमाह-'गुण'त्ति प्रक्रमाद् गुणकरणं, किमित्याह-तपश्च संयमश्च तपःसंयमौ तयोरात्मगुणयोर्योगा:-तत्करणरूपा व्यापारास्तपःसंयमयोगाः, किमुक्तं भवति ?-तपःकरणम्-अनशनादि संयमकरणं च-पञ्चाश्रवविरमणादि गुणकरणमुच्यते, गुणत्वं च तपःसंयमयोः कम्मनिर्जराहेतुत्वेनात्मोपकारित्वात . 'जंजण'त्ति योजनाकरणं 'मणवयणकाए यत्ति चशब्दोऽवधारणे, विषयसप्तमी चेयं, ततो मनोवाकायविषयमेव. तत्र मनोविषयं सत्यमनोयोजनाकरणादि चतुर्धा, वाग्विषयमपि सत्यवाग्योजना8|करणादि चतुर्धेव, कायविषयं त्वौदारिककाययोजनाकरणादि सप्तधा, ततश्च द्वाभ्यां चतुष्काभ्यां सप्तकेन च मीलि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy