________________
उत्तराध्य.
बृहद्वृत्तिः
॥२०४॥
भणियं । इह पज्जयऽवेक्खाए दवट्ठियनयमयं तं च ॥ २ ॥” इति गाथार्थः ॥ २०२ ॥ उक्तमजीवभावकरणं, साम्प्रतं जीवभावकरणमाह
जीवकरणं तु दुविहं सुयकरणं चैव नो य सुयकरणं । बद्धमबद्धं च सुअं निसीहमनिसीहबद्धं तु ॥ २०३ ॥
व्याख्या - जीवभावकरणं पुनः, तुशब्दस्य पुनरर्थत्वात्, 'द्विविधं' द्विप्रकारं श्रुतस्य करणं श्रुतकरणं, भावकरणत्वं चास्य श्रुतस्य क्षायोपशमिकभावान्तर्गतत्वात् चैवेति पूरणे, 'णो य सुयकरणं ति चशब्दस्य व्यवहितसम्बन्धत्वात् नोश्रुतकरणं च । तत्राद्यमभिधित्सुराह - 'बर्द्ध' ग्रथितम् 'अबद्धं च' एतद्विपरीतं 'श्रुते' श्रुतविषयं, करणमिति प्रक्रमः, तत्र च 'णिसीहमणिसीहबद्धं तु'त्ति बद्धं द्विविधं - निशीथमनिशीथं च, तुशब्दश्चानयोरबद्धस्य च | लौकिक लोकोत्तर भेद सूचकः, ततश्च निसीथं रहसि यत्पठ्यते व्याख्यायते वा, तच्च लोकोत्तरं निशीथादि लौकिकं बृहदारण्यकादि, अनिशीथमेतद्विपरीतं तच्च लोकोत्तरमाचारादि लौकिकं पुराणादि, अबद्धमपि लौकिकलोकोत्तरभेदेन द्विभेदमेव, तत्र लोकोत्तरं यथैका मरुदेव्यत्यन्तस्थावरा सिद्धा स्वयम्भूरमणे मत्स्यपद्मयोर्वलयवर्द्धानि सर्वसंस्थानानि सन्ति, विष्णुकुमारमहर्षेर्योजन लक्षप्रमाणशरीरविकरणं कुरुडविकुरुडी कुणालायां स्थितावतिवृष्ट्या च तन्नाशः तयोश्चाशुभानुभावात्सप्तमनरकपृथिवीगमनं कुणालानाशाच्च भगवतो वीरस्य त्रयोदश्यां समायां केवल - | ज्ञानोत्पत्तिरित्यादि अनेकप्रकारमाचार्य परम्परायातं, लौकिकं त्वबद्धं द्वात्रिंशदडिकाः षोडश करणानि पञ्च स्थानानि,
Jain Education International
For Personal & Private Use Only
असंस्कृता.
४
॥२०४॥
www.jainelibrary.org