________________
जीवाजीवेषु भवति 'ज्ञातव्यम्' अवबोद्धव्यं, किमुक्तं भवति १ - जीवविषयमजीवविषयं च तत्राल्पवक्तव्यत्वाद||जीवभावकरण मेवादावुपदर्शयति- 'तत्थ जमजीवकरणं'ति तत्र - तयोर्द्वयोर्मध्ये यदजीवकरणं तत् 'पञ्चविधं तु' पञ्चप्रकारमेव 'ज्ञातव्यम्' अवसेयमिति गाथार्थः ॥ २०९ ॥ एतदेव स्पष्टयितुमाह
वण्णरसगंधफासें संठाणे चेव होइ नायवं । पंचविहं पंचविहं दुविहऽविहं च पंचविहं ॥ २०२ ॥
व्याख्या—वर्णरसगन्धस्पर्शे संस्थाने चैव, उभयत्र विषयसप्तमी, ततो वर्णादिविषयं भवति ज्ञातव्यम्, अजीवकरणमिति प्रक्रमः, तत्र वर्णः पञ्चविधः - कृष्णादिः, रसः पञ्चविधस्तिक्तादिः, गन्धो द्विभेदः - सुरभिरितरश्च, स्पर्शोऽष्ट| विधः - कर्कशादिः, संस्थानं पञ्चविधं परिमण्डलादि, एतद्भेदात्करणमप्येतद्विषयमेतावद्भेदमेव, अत एवाह - 'पञ्च - विध' मित्यादि, ननु द्रव्यकरणात्कोऽस्य विशेषः ?, उच्यते, इह पर्यायापेक्षया तथाभवनमभिप्रेतं, द्रव्यकरणे तु द्रव्यस्यैव तथा तथोत्पादो द्रव्यास्तिकमतापेक्षयेति विशेषः, उक्तं च – “अपरप्पओगजं (ओ) जं अजीवरूवादि | पज्जयावत्थं । तमजीवभावकरणं तप्पज्जाअप्पणावेक्खं ॥ १ ॥ को दविस्ससाकरणाउ विसेसो इमस्स ? ननु १ अपरप्रयोगजं (तो) यदजीवरूपादि पर्यायावस्थम् । तदजीवभावकरणं तत्पर्यायात्मनोऽपेक्षया ॥१॥ को द्रव्यविश्रसाकरणाद्विशेषोऽस्य ?. ननु भणितम् । इह पर्यायापेक्षया द्रव्यार्थिकनयमतं तच्च ॥ २ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org